________________
भावजिनाध्यारोपाभावेन तत्र स्थापनाजिनस्याप्यभावात् । न च स्थापनानिक्षेपे भावजिनत्वमसिद्धमिति मलपितव्यम्, भावजिनाध्यारोपेणैव स्थापना निक्षेपस्य स्वीकृतत्वात् । न चाशङ्कनीयं विकल्पविषयत्वेनाध्यारोपस्याव स्तुत्वम्, कथञ्चित् अध्यारोपस्यापि वस्तुविषयत्वस्वीकारात् । अन्यथा तवापि माताभगिन्यादिषु स्त्रीत्वसाम्येन स्वभार्यायामिव प्रवृत्तिप्रसङ्गः संपत्स्यते । किश्व भरत सार्वभौम निष्पादिताष्टापदगिरिचतुर्विंशतिजिनस्यातीतचतुर्विंशतिकायां ब्रह्मेन्द्रकृत श्रीनमिजिनस्य, आपादिश्राद्धकारितश्रीशङ्गेश्वरपार्श्वनाथस्य, श्रीभरतन रेशमुद्रिकागतकुल्यपाकतीर्थस्थमाणिक्यस्वामिनः, स्तम्भनपार्श्वनाथस्य चैत्यादि विमानविद्या नामावश्यकादिशास्त्रेषु स्पष्टपाठस्य निर्वर्णनात्, पञ्चमारकेऽपि मौर्यवंशमूर्धन्यपरमाईत श्रीसंप्रतिमहाराजेन, चौलुक्यवंश चूडामणिश्री कुमारपाल भूपालादिना च निर्मापितानेकजिनबिम्बानां विद्यमानत्वाच्च नमस्काराद्यत्वेन मान्या । यदि मूलावश्यके तादृशोलेखाभावेन नियुक्त्यादीनामप्रामाण्यत्वेनाधुनिकविम्बानां त्वनाभिमतत्वेन च न भवतां कापीष्टसिद्धिरिति चेत् ? न त्वदभिमतसूत्रकृताङ्ग - स्थानाङ्ग - विवाहमज्ञप्ति - ज्ञाताधर्मकथाङ्ग- उपासकदशाङ्ग - औपपातिक-राजप्रश्नीय-जीवाभिगम - जम्बूदीप मज्ञप्त्यादिसमयरत्नाकरेषु निरूपितत्वात् । आप्तत्वव्याइतिप्रसङ्गेनाप्तमवृत्तिः नैव संभाव्यते निष्प्रयोजिका । न च सिद्धान्ते नित्या प्रतिकृतिरंग प्रतिपादिता, ज्ञातादिषु द्रौपद्यधिकारे अनित्याया अपि प्रतिपादनात् । तस्था नियतस्थाने एवं वर्तित्वात् साऽपि नित्यैवेतिकल्पना नाश्चति सामञ्जस्यम् । कृतनिदानत्वेन तस्या मिथ्यादृष्टित्वात् उद्वाहप्रसङ्गाच्च यक्षप्रतिमैव तत्र सम्भाव्यत इति विचारोऽपि न क्षोदक्षमः, अन्यथा सर्वेषामर्द्धचक्रवर्तिनां मिध्यादृष्टित्वप्रसङ्गात्, तत्समये सुरूपवतां भर्तॄणां याञ्चाप्रसङ्गाच्च । नच तया तथा याश्वा कृता, अपि तु शक्रस्तवेन जिनस्तुतिरेव कृता । अस्तु नाम प्रतिमाप्रतिपादनं परं अप्कायादिजीवोपमदर्नत्वेन हिंसासंभवात् हिंसापाथ " सम्वे पाणा सब्वे भूआ " इत्यादी हिंसात्वावच्छेदेनानिष्टसाधनत्यतिपादनात् प्रतिमापूजामा विपादनं नावइति सौनुकमिति नैक नोदनीयं एवं सति दानादिक्रियाया अध्यभावापत्तेः, तस्मात् जिनानैवान्वेषणीया । अपि च यतनया क्रियमाणा बिनाच न पापमयोजिका, मत्युत चित्तशुद्धिफलकत्वेन पुण्यादिमयोजिका । अर्चायां दानादाविव स्वरूपहिंसासम्भवेऽपि अनुबन्धहिंसाया असम्भवात् । यद्यप्ययतमया क्रियमाणा हिंसान्तर्भूतत्वेन पापप्रयोजिका तथापि भक्त्याऽविधिनापि विधीयमाना न तथा, भक्तिगुणेनाविधिदोषस्यापि निरनुबन्धिकृतत्वात्। किञ्च आगमे ऽपि सूर्याभदेवाद्यधिकारे सुमादिभिर्जिनाचार्याः प्रतिपादन्नममेवाशोभनं प्रतिमार्थाप्रतिपादनम् । न च विकुर्वितकुसुमैरच कृतेति वाच्यम्, राजप्रश्रीयसूत्रे जलस्थलसमुद्र भूतकुसुमानां मोक्तत्वात् । देवानां तथाकल्पत्वेन भवनिबन्धनं तदाचरणं न तु देश विरतादीनामत एव देवा अधार्मिका इति प्रोच्यन्ते इति वाक्पटुता नैष प्रकटनीया, एवं सति तब संयमादेरपि भवनिबन्धनस्वं स्यात् । अर्चायां विराधनासम्भवात् भवत्येतत्, अत्र तु तस्या असम्भवात् चैतत् सम्भवतीत्यप्यलीकं, तवापि गमनागमनक्रियासु वायुकायादीनां विराधनासंभवात् । विबुधानामधार्मिकत्वकथनेन सूत्रायातमां मा विधेद्यन्यया भवान्तरे बोधिरपि दुर्लभा भविष्यति, तेषु श्रुतधर्मादीनां विद्यमानत्वात् किं बहुना संयतत्वाविद्यमानेऽपि निष्ठुरवचनत्वेन देवानामसंयत्तस्वव्यपदेशस्यापि निरस्तत्वात् । तथाचोक्तं पञ्चमशतके चतुर्थोदेशे "देवाणं भंते! संजय चि वचनं सिया ? गोयमा ! नो इणडे समद्वे अम्मखाणमेयं देवाणं । देवाणं ते असं वचि वचनं सिया ? नो इण्डे समद्वै निठुरवयणमेयं देवाणं । देवाणं भंते! संजयाऽसंजय चि नचव्वं सिया! गोयमा ! नो इण्डे समट्टे असअमेयं देवाणं । से किं खाइएणं भंते ! देव त्ति बचव्वं सिया १ गोयमा ! देवाणं नो संजय सि वसव्वं सिया ।" यत्तु देवानामधार्मिकत्वमुक्तं तत्तु संयमधर्मापेक्षया प्रत्येतव्यम्, तस्मात् आगमोपदिष्टकूपज्ञा तेन सुव्यवस्थितं सफलत्वमित्यलपति पल्लविते । अस्मिन् विषयेऽधिकजिज्ञासुभिस्तु समवलोकनीया वादिद्विरदपश्चाननश्रीमद्यशोविजयवाचकवरावरचितमातमाशतकादिप्रबन्धाः ।
श्री जिनप्रतिकृति स पर्यानिषेधकस्तु साम्प्रतसमये विद्यमान जैनाभासढुंढकस्य लुम्पकनामाऽदिपुरुषोऽस्य निबन्धस्य निर्मातरि भगवति विद्यमाने प्रादुरभूत् । एतद्वत्तान्तस्तु कुमवमततातितिरस्करणतरणितुल्य श्रमिद्धर्मसागरवाचकानां " तदानीं च लुम्पकाख्यलेखकात् विक्रमाष्टाधिपंचदशशते १५०८ वर्षे जिनमतिमोत्थापनपरं लुंपकमतं प्रवृत्तम् । तद्वेषधरास्तु विक्रमीयत्रयत्रिंशदधिकपञ्चदशशतवर्षे जातास्तत्र प्रथमो वेषधारी भाणाख्यो अरहटवाडावास्यभूदिति । " एतदुल्लेखेन स्पष्टमवसीयते इति । रात्रिकृत्यनामकद्वितीयमकाशे दैवसिक-रात्रिक-पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रतिक्रमणाद्यनेकविधयो विहिताः । पर्वकृत्याख्यतृतीयमकाशे पर्वतिथि - अष्टाह्निक- पौषधविध्यादिस्वरूपं समदर्शि । चातुर्मासिककृत्यनामकचतुर्थप्रकाशे चातुर्मासिकनियमाणुव्रतादिस्वरूपं संकलितम् । वर्षकृत्यनामक पञ्चमप्रकाशे - संघार्चन - साधर्मिक वात्सल्य - श्रीजिनस्य रथयात्रादिकृत्यानि कथितानि सन्ति । जन्मकृत्यनामकषष्ठप्रकाशे वासस्थान - विद्याग्रहण - विवाहविधि - श्रीजिनचैत्यकारापणाद्यनेक कृत्यानि प्रतिपादितानि ।
ग्रन्थस्यास्य मुद्रापणार्थ तपगगनांगणगगनमणि-न्यायाम्भोनिधि - श्रीमद्विजयानन्द ( आत्मारामजी ) सूरीश्वर -
श्रीश्राद्धविधिप्रकरणम्
3