SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ तोषिता देवताऽवदत । छनौपयिकमेवास्ति'न'बलोपयिकं त्विह ।। ८०९ ।। शुकराजे गतेऽन्यत्र बजेस्त्वं तत्र सत्वरम् । मत्यभाषाच ते मावि शुकसारूप्यमेव हि ॥ ८१०॥ तद्राज्यं स्वेच्छया भोज्यमित्युक्त्वा सा तिरोऽभवत् । सोऽपि प्रीतः स्वरूपं तचंद्रवत्यै न्यवेदयत् ।। ८११ ॥ शुकराजोऽन्यदा यात्रोत्कंठया स्वमियाद्वयम् । मोचे पिये। प्रयास्यामि तीर्थ नंतुं तमाश्रमम् ॥८१२ ॥ ते पाहतुः सदष्याव आवामपि यतस्ततः। अस्मत्पित्रोरपि भवेत् । संगमः प्रीतिसंगमः ।। ८१३ ।। ततस्ताभ्यां युतः कस्याप्यनुक्त्वैव सदैवतः । विमानयानः पाचालीज्ञातोऽपि च केनचित् ॥ ८१४ ॥ चंद्रवत्या च तद्वृत्तं ज्ञापितचंद्रशेखरः। तत्पुरं प्रविवेष 'द्राक् 'परकायमिव छलात् ॥ ८१५ ॥ जातश्च शुकरूपेण ज्ञातश्च । शुक एवं सः । सर्वैरपि जनैः कूट सुग्रीव इव दंभवान् ।। ८१६ ॥ रात्रौ पूत्कृत्य चोत्तस्थौ'भो भो धावत धावत । अपहृत्य हि मत्पन्यौ विद्याभृद्याति यात्ययम् ।। ८१७ ॥ हाहाकारपराः सर्वे'मंत्र्याद्यास्तत ऐयरुः । प्रोचिरे च प्रभो! विद्यास्तावकीना गताः कताः ।। ८१८ ॥ सदुःख 'इव । सोऽवादीत् । किं । कुर्वेऽसो दुराशयः । हा विद्या। अप्यपाहार्षीत्माणानिव । यमो मम ॥ ८१९ ॥ ते माहातु ता विद्या दयितासहिता अपि । महेश ! पिप्रियिमहे वपुषः श्रेयसैव ते ॥ ८२० ॥ एवं राजकुलं सर्व कपटेन पटीयसा । प्रत्याय्य राज्यमकरोत्पीतिं चंद्रवती नयन् ।। ८२१ ।। शुकोऽय'नत्वा तत्तीर्थ गत्वा श्वशुरयोः पुरे । स्थित्वा कियहिनी पाप स्वपुरोपवनांतरे ॥ ८२२ ॥ स्वकृत्यशंकितश्चंद्रशेखरस्तु गवाक्षगः। शुकमायातमोलोक्य व्याकुलस्तुमुलं व्यधात् ॥ ८२३ ॥ उचे च सचिवं विधाः पत्न्यौ च मम योऽहरत् । स एव कृत्वा मद्रपं. मामुपद्रोतुमेत्ययम् ।। ८२४ ।। तद् गत्वा 1 आजग्मुः ।२ प्रतीति गमविश्वा ।। तत एवांशुत कयंचिभिवर्त्तय । पङ्क्तियुक्त्या सामैव बलं हि बलिनं प्रति ।। ८२५ ॥ कार्य सुसाधं दुस्साधमपि स्याक्ष ! सख्यतः । इत्यमात्योऽन्वितो' दक्षस्तं प्रतिमाचलत्ततः ॥ ८२६ ॥ संमुखं मे समेत्येतत्सर्वमेवर्मखर्वमुत् । शुकः स्वयानादुत्तीर्य रसालतळमीयिवान् ।। ८२७ ॥ मंत्री च गत्वा तं नत्वा व्याजहार विचारवित् । विद्याधरेंद्र ! शक्तिस्ते वाद्युक्तिरिव निःसमा ॥ ८२८ ।। यदस्मत्स्वामिनः पल्यौ । विद्यार्थापहृतास्त्वया । अथ प्रसद्य सद्यस्तु 'याहि स्थानं निजं जवात् ॥ २२९ ।। भ्रांतोऽयं शून्योचित्तो वा वातकी वा पिशाचकी। इत्यायनल्पसंकल्पः। शुकोऽजल्पत् ' सविस्मयः ॥ ८३० ॥ अगादि किमिदं मंत्रिन् ! त्वया । हंत शुकोऽस्म्यहम् । मंत्र्यूचे' खेचरैवं 'मामपि 'वंचयसे किमु ॥ ८३१ ॥ मृगध्वजमहावंशसहकारशुकः शुकः । भवनेऽस्ति प्रभुर्नस्तद्रपभृत्त्वं तु खेचरः॥८३२ ॥ किंवा बहूक्या नः स्वामी शुकस्ते दर्शनादपि । ओतोरिव विभेत्युच्चैः कंपः सिमर्मतो व्रज ॥४३३।। शुकेन 'खिन्नचित्तेन चिंतितं 'नियतं छलात् । मद्रूपं कोऽपि निर्माय । मायावी राज्यमग्रहीत् ।। ८३४ ।। राज्यं भोज्यं च शय्या च'वरवेश्म वरांगना । धनं चैतानि शून्यत्वेऽधिष्टीयन्ते 'ध्रुवं परैः ॥ ८३५ ॥ किं कार्यमथ 'हत्वैने 'राज्यं गृह्णामि यद्यहम् । तदा लोकापवादो मे भवितै सुदुःश्रवः ।। ८३६ ॥ धूर्तः कोऽपि महापापी मृगध्वजनृपात्मजम् । शुकं जघान राज्यं च जग्राह ग्राहदुर्ग्रहः॥ ८३७ ॥ तेनानेकेऽय संकेताः प्रोक्ताः कांताद्वयेन च । परं न कश्चिन्मन्येत धिगहो'दंभमँभितम् ॥८३८॥ चिंताः'शुकभूकांतः। कांताद्वितययुक्ततः। विमानमानी व्योम्नागाद्विमानमधिरूढवान् ॥ ८३९ ।। मंत्री च मुदितः कूटशुकभूपसमीपगः। पाहः तद्गमनं सोऽपिजहर्षः। स्मरतर्षभृत् ॥ ८४०॥शुकः शुक . १ जानतळम् । २ मार्जारस्य । ३ माहो मकर विशेषः । ४ तेन नेके ईत्यपि पाठः । ५ मारमानं विमानं म्पनरहितं मन्यते इति ।। सहर्ष इत्यपि पाठः। इव 'व्योन्नि । ससंभ्रममय । भ्रमन् । हिया। मियाप्रेरितोऽपि न ययौ । श्वाशुरं पुरम् ॥ ८४१॥ स्वपदभ्रष्टेन पदेन गम्यमुपलक्षितस्य। न स्वस्य । नितरां । श्वशुरस्य' तु ' यत्तदुचितमाडंबरस्यैव ।। ८४२ ॥ यतः-" सभायां । व्यवहारे च वैरिषु । श्वशुरौकसि । आडंबराणि पूज्यंते । स्त्रीषु । राजकुलेषु च ॥ ८४३ ॥" विद्याभिः। पूर्णभोगांगसामग्रीकोऽपि चिंतया । स ' सदुःखः शून्यवासी' षण्मासीमत्यवाहयत् ॥ ८४४ । महात्मनामपि । हहा महान् कोऽप्येष विप्लवः । कस्य वा दिवसाः सर्वेसर्वागीणमुखात्मकाः ॥८४५॥ यतः-"कस्य वक्तव्यता नास्ति को न जातो मरिष्यति । केन'न' व्यसनं प्राप्तं कस्य सौख्यं निरंतरम् ॥८४६॥" अन्यदा तस्य सौराष्ट्रराष्ट्रे विचरतः सतः । विमानमस्खलत् खेऽपि सरित्पूरो गिराविव ॥८४७॥ दग्धोपरि स्फोटकोऽयं प्रहारः पतितोपरि । क्षारक्षेपः क्षतेऽपीति शुकोऽमस्त विहस्तहृत् ॥८४८॥ ततोऽयं स्वयमुत्तीर्य वीर्यभृत्तत्क्षणादधः। विमानस्खलनहेतुं इंत' यावद व्यलोकयत् ॥८४९॥ तावत्केवलिमं तातमेव सौर्य ददर्श'सः । मंदारमिव मेरुस्थं स्वर्णाजस्थं सुरैः श्रितम् ॥८५०॥ प्रणत्य सत्यभक्याथ प्रीतः स्फीततराश्रुटक् । तातं' प्रति स्वराज्यस्य 'भ्रंशमांशु शशंस सः ॥ ८५१ ॥ पित्रादेः प्रियमित्रस्य स्वामिनः स्वाश्रितस्य वा । निवेद्यापि निजं दुःखं स्यात्सुखीव सकृज्जनः ॥ ८५२ ।। गुरुणांथ पुरा कर्मविपाकोऽयमितीरिते । स माह किं मार्जि' माक् कर्मेदृग्गुरुरप्यवक्॥८५३।। जितारितः पूर्वभवे भवान् भद्रकभावभूव । न्यायनिष्ठः । उकुरोऽभूद 'प्राये। श्रीप्रामनामनि ॥ ८५४॥ पितृदत्तापरग्रामभोक्ता भ्राता च तेऽभवत् । प्रकृत्यैवातंकनिष्टः कनिष्टः परमातृजः ॥ ८५५ ॥ श्रीग्रामग्राममागत्य सोन्यदा स्वपदं व्रजन् । १ व्याकुल हृदयः । २ स्वकीयम् । + शौचमित्यपि पाठः । 28 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy