SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ विध्वस्तसमस्तरागद्वेषादिदोषमल ! जय प्रास्तापारसंसारपारावारनिमज्जज्जंतुसमुत्तारमहायानपात्रप्रवर ! श्रीसिद्धवधूवर ! अजर ! अमर ! अचर ! अदर ! अपर ! अपरंपर ! परमेश्वर ! परमयोगीश्वर ! श्रीयुगादिजिनेश्वर ! नमस्ते । स्तुत्वेति । हारिहारीतगधरीत्या' मुदा' जिनम् । राजानं प्रति । नियाजं, व्याजहार ऋषीश्वरः ॥ ५४॥ राजन्। मृगध्वजऋतु-ध्वजराजकुलध्वज । वत्सांगच्छाश्रमे ' दिष्ट्याऽस्माकमाकस्मिकोतिथिः ॥ ५५ ॥ स्वोचितामांतिथेयीं ते 'प्रथयामो यथा ' मुदा । भाग्यैरेवोपलभ्यतेऽतिथयो हि भवादृशाः ॥ ५६ ॥ कोऽयं महर्षिः कं हेतुं मामाहयति साग्रहम् । मामकीनाभिधानादि जानाति ' कथमेष वा ॥ ५७ ॥ इत्युच्चैर्विस्मितमतिः क्षमापतिर्यतिना समम् । जगामांश्रममार्या हि मार्थनाभंगभीरवः ।।५८॥ महखिनस्तस्य पुनः प्रतिपत्तिं तपस्विनः । महातपस्विनस्तेनु'सर्वा शश्वद्यशस्विनः ॥ ५९॥ भूपतिं प्रति स' प्रीततमः प्राह महाऋषिः । अत्रांगतेन' भवता कृतास्माकं कृतार्थता ॥६०॥ अस्मत्कुलालंकरण कार्मणं विश्वचक्षुषाम् । अस्माकं जीवितस्यापि जीवितं जंगमं किल ॥६१।। कन्या कमलमालेयं पुष्पमालेव दैवती । अहों तवैव तत्पाणौ कुरुष्व स्वीकुरुष्व नः ।। ६२ ।। युग्मम् ॥ इष्टं वैद्योपदिष्टं च 'तन्मन्वानोऽपि भूपतिः। प्रापद्यतांग्रहेणैव सतां हि स्थितिरीहशी ॥६३!। ततश्च स 'मुदा'मादात्तस्मै विस्मरयौवनाम् । कन्यां स्वामचिरात्को वा चिरयेदिष्टकर्मणि ॥ ६४ ॥ वल्कलाकल्पयाप्युच्चैरनया पिप्रिये'नृपः । युक्ता वा राजहंसस्य प्रीतिः कमलमालया ॥६५॥ सानंदतापसी,दस्फूर्जवलमंगलम् । स्वयं विधाप्यमानार्हनिःशेषविधिबंधुरम् ॥६६॥ नृपेण परिणाय्यैनां स तस्मै करमोचने । पुत्रार्थ प्रददे मंत्र देयं वान्यन्मुनेः किमु ॥ ६७ ॥ युग्मम् ॥ जाते विवाहे स्माहेम'महर्षि स महीशिता । राज्यं शून्यं विमुच्याहमिहायातोऽस्मि 'सत्वरम् ॥ ६८॥ सज्जिकां कारयध्वं तच्चलितुं तापसोऽप्यवक् । दिक्पटानामिास्माकं भवेत्का नाम सज्जिका ॥६९॥ किंतु दिव्यं भवद्वेषं शौचवेषं च'वाल्कलम् । दर्श दर्श दधात्येषा खेदमेदस्वलात्मताम् ।। ७० ।। किंच सेचनमेवैषा वृक्षाणां कृतपूर्विणी । रीति तपस्विनामेव 'सर्वदा दृष्टपूर्विणी ॥७१ ।। अस्या आजन्ममुग्धायाः स्निग्धायास्त्वयि निर्भरम् । माभूत्कापि सपत्नीभ्यः पराभूतिस्ततः कचित् ।। ७२॥ नृपोऽप्याह परा भूतिरेवैतस्या विधास्यते । सर्वांगीणापि यौष्माकी न चोक्तिः खंडयिष्यते ॥७३॥ छेकच्छेकोक्तितः प्रीति 'तापसाय विधाय सः । तापसीप्रभृतिप्रीत्यै स्फुटोक्त्येत्युक्तवान् पुनः॥७४॥ सर्वान् स्वस्थानमाप्तोऽस्याः पूरयिष्ये'मनोरथान् । कौतस्कृतमिदानीं तु वेषमात्राद्यपीह भोः ।।७५।। ऋषिर्विषीदंस्त्ववदत्पुच्या वेषोपि धिङ् मया । निष्किंचनेन नो कर्तुं शक्यते 'नित्यनिःस्ववत् ॥७६ ॥ तस्यैवं वदतः पेतुनेत्रतोऽश्रुणि दुःखतः । यावता 'तावता प्रत्यासन्नतः सहकारतः ॥७७॥ अदृष्यदृष्याभरणश्रेणयस्तत्र तत्क्षणात् । स्पर्धयेवापतन् वारिधारा धाराधरादिव ॥ ७८॥ युग्मम् ॥ सर्वेऽपि तद्वीक्ष्य 'चमचेक्रीयांचक्रिरेतराम् । निश्चिक्यिरे च ' कन्याया' भाग्यवत्तामनुत्तराम् ॥७९॥ पतेत्फलादि फलदाज्जलादि जलदादिव । न तु दृष्याद्यहो' पुण्यप्रागल्भ्ये किमुवाद्भुतम् ॥८॥ यतः-" पुण्यैः संभाव्यते पुंसामसंभाव्यमपि क्षितौ । तेरुर्मेरुसमाः शैलाः किं'न रामस्य वारिधौ ॥८॥" ततः प्रहर्षिणा क्षोणिपालः सह महर्षिणा । दत्तचित्तप्रसादं तं प्रासादं सप्रियोऽप्यंगात् ॥८२॥ पुनः क्षिप्रं प्रभो ! भूयाद्दर्शनं तव पावनम् । स्थिरीभूयाश्च मच्चित्ते समुत्कीर्ण इवाश्मनि ।।८३॥ उक्त्वेत्यांद्यजिनं तत्र स प्रणंनम्य सप्रियः । प्राप्तो बहिर्जिनगृहान्मार्ग प र उत्कृष्टा समृद्धः । २ निर्मलाः ।। मच्छ तापसम् ।।८४ तापसोऽप्याह 'नैवाहं वेबि मार्गाद्यथो नृपः। पाह'तर्हि कथं नाम मन्नामादि विवेदिथ ॥८५॥ ऋषिरेष 'बभाषेऽथ शृणु भो भूपतेऽन्यदा । मुदैनां चारुतारुण्यां कन्यां वीक्ष्येत्यचिंतयम् ।।८६।। अनुरूपो वरः कोऽस्या 'भविता तावता शुकः । सहकारस्थितोऽवोचचिंता मा भोः कृथा वृथा ॥८७॥ ऋतुध्वजमहाराजांगजं नाम्ना मृगध्वजम् । राजानमानयन्त्रस्य॑द्यैवास्मिन् देववेश्मनि ॥८८॥ तमेव विश्वप्रवरं वरं कन्येयमर्हति । कल्पवल्लीव कल्पद्रु'मार्थेऽस्मिन् संशयं कृथाः॥८९॥ इत्युक्त्वा'स'गतस्त्वं चांगतस्तत इमां मुदा । तुभ्यं देयमिव पादांनान्यजानामि किंचन ॥९०॥ इत्युदित्वा मुनौ मौनं नृपे चिंतां च चकृषि । समयज्ञ इवोपेत्य स एवाशु शुको जगौ ॥९१।। आगच्छागच्छ भो भूप! पंथानं दर्शयामि ते । अहं विहंगमात्रोऽपि नोपेक्षे ' स्वाश्रितं जनम् ॥ ९२ ॥ क्षुद्रोऽपि किल'नोपेक्ष्यः वाश्रितः किं पुनर्महान् । शशांकः । स्वांकतः कापि मुंचत्यपि ' शशं शिशुम् ॥ ९३ ॥ व्यस्मार्षीमिकस्मात्त्वमार्यधुर्योऽर्यनार्यवत् । विस्मेरेयमहं ' तु ' त्वां' क्षुद्रोऽप्यक्षुद्रवत्कथम् ॥ ९४ ॥ ततश्चमत्कृतः ' पृथ्वीपतियतिपतिं । द्रुतम् । आपृच्छयारुह्य वाजींद्रं । समियः। शुकमन्वगात् ॥ ९५ ॥ एवंमागच्छतस्तस्योत्सुकस्य शुकपृष्टतः। क्षितिमतिष्ठितपुरं किंचिदग्गोचरेऽचरत् ॥ ९६ ॥ तावत्कार । स्थिरस्तस्थावारुखैकं 'महीरुहम् । भूकांतः 'शंकितस्वांतः सोपरोधं तमभ्यधात् ।।९७। पुरः पुरस्य प्रासादवप्राधं यद्यपीक्ष्यते । तथापि हि पुरं दूरे किमस्थाः 'कीर रुष्टवत् ॥९८।। हुंकृत्य विहगः माह महदत्रास्ति ' कारणम् । मेक्षावतां प्रवृत्तिहि नैव निर्हेतुका कचित् ।। ९९।। किंतदित्युदिते 'तेन 'संभ्रांतेन'महीभुजा । व्याजहार कीरराजः शृणु राजन् ! यथा वे ॥ १०० ॥ चंद्रपुर्या अधीशस्य'चंद्रशेखरभूभुजः । स्वसा चंद्रवतीत्यस्ति वल्लभा वल्लभा तव ॥ १०१॥ सांतर्दुष्टा मुखे मिष्टा गोमुखव्याघ्ररूपिणी। श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy