SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ॥ १ ॥ " इत्युक्तेः । किं ममात्र स्थित्या ? यामि देशान्तरं । यतः -- “ निग्गंतूण गिहाओ, जो न निअई पुहइमंडळ सेसं । अच्छेरयसयरम्मं, सो' पुरिसो कूवमंडुको ॥ १ ॥ नज्जंति चित्तभासा, तह य विचित्ता उ देसनीईओ । अच्चन्आई बहुसो, दीसंति' महिं' भमंतेहिं ॥ २ ॥ " ततो रहः खड्गहस्तो निशि निर्गतोऽसौ पृथ्व्यां स्वैरभ्रमी कदाचिदरण्ये मध्याह्ने क्षुत्तृडाक्रान्तो यावज्जज्ञे, तावदेकेन सर्वाङ्गालङ्कृतदिव्यनरेण सस्नेहमालाप्य तस्मै रत्नमेकं सर्वोपद्रववारकं द्वितीयं च सर्वेष्टसाधकं दत्तं । कोऽसीति कुमारेण पृष्ठे तेनोक्तम्, स्वपुरे प्राप्ते मुनिगिरा मच्चरित्रं ज्ञास्यसि । ततः स तद्रत्नमहिम्ना सर्वत्र स्वैरं विलसन् कुसुमपुरेशदेवशर्मनरेशयक्ष्णोर्व्यथां तीव्रां पटहोद्घोषाज्ज्ञात्वा रत्नमहिम्नांपजहे । तुष्टो राजा राज्यं पुण्यश्रियं पुत्र दत्त्वा निष्क्रान्तः । पिताप्यथ स्वपट्टे तं न्यस्य निष्क्रान्तः । एवं राज्यद्वयं स भुङ्क्ते । अन्यदा त्रिज्ञानी देवशर्मराजर्षिस्तस्य प्राभवं प्राह । क्षेमापुर्वी श्रेष्ठसुव्रतो' गुरुपार्श्वे यथाशक्ति चतुर्मासीनियमान् स्वीचक्रे । त॒त्य॑स्तु रात्र्शनं मधुमद्यमांसाशनं 'प्रतिवर्षे वर्षाचतुर्मास्यां नियमितवान् । स मृत्वा त्वं जातः । सुव्रतस्तु महर्द्धिसुरः । तेन प्राच्यस्नेहात्ते रत्नद्वयं दत्तं । ततो जातिं स्मृत्वा नानानियमान् मपाल्य नृपः स्वः प्राप्तो विदेहेषु' च्युत्वा सेत्स्यति । इति चतुर्मासीनियमे कथा ॥ लोकेऽप्युक्तमिदं, - , - यथा वशिष्ठ उवाच – “ कथं ' स्वपिति देवेशः १ पद्मोद्भव ! महार्णवे । सुप्ते च कानि वर्ज्यानि ? वर्जितेषु च किं फलम् १ ॥ १ ॥ नायं स्वपिति देवेशो न देवः प्रतिबुध्यते । उपचारो हरेरेवं क्रियते जलदागमे ॥ २ ॥ योगस्थे च हृषीकेशे, यद्वयै तनिशामय । प्रवासं नैव कुर्वीत, मृत्तिकां नैव खानयेत् ॥ ३ ॥ हन्ताकान् राजमाषांच, वल्लकुलत्थांश्च तूबरीम् । कलिङ्गानि ' त्यजेद्यस्तु, मूलकं तन्दुलीयकम् ॥ ४ ॥ एकन्नेन महीपाल !, चातुर्मास्यं निषेवते । चतुर्भुजो 'नरो भूत्वा प्रयाति परमं पदम् ।। ५ ।। नक्तं न भोजयेद्यस्तु, चातुर्मास्ये विशेषतः । सर्वकामानवाप्नोति, इह लोके परत्र च ॥ ६ ॥ यस्तु सुप्ते हृषीकेशे, मद्यमांसानि 'वर्जयेत् । मासे मासेऽश्वमेधेन, स यजेच शतं समाः ॥ ७ ॥ " इत्यादि । तथा मार्कण्डेय उवाच—“ तैलाभ्यङ्गं'नरो' यस्तु, न करोति नराधिप ! । बहुपुत्रधनैर्युक्तो, रोगहीनस्तु जायते ॥ १ ॥ पुष्पादिभोगसंत्यागात्स्वर्गलोके महीयते । कट्वम्लतिक्तमधुरकषायक्षारजान् रसान् ॥ २ ॥ यो वर्जयेत्स वैरूप्यं दौर्भाग्यं नाप्नुयात्कचित् । ता म्बूलवर्जनाद्राजन् ! भोगी' लावण्य॑मीप्नुयात् ॥ ३ ॥ फळपत्रादि शाकं च, त्यक्त्वा पुत्रधनान्वितः । मधुरस्वरो भवेद्राजन्नरो वर्जनात् ॥ ४ ॥ लभते सन्ततिं दीर्घा, तापपक्कस्य वर्जनात् । भूमौ संस्तरशायी च विष्णोरनुचरो भवेद ॥ ५६ ॥ दधिदुग्धपरित्यागाद्गोलोकं लभते नरः । यामद्वयं जलत्यागान्न रोगैः परिभूयते ॥ ६ ॥ एकान्तरोपवासी च ब्रह्मलोके म हीयते । धारणान्नखलोमानां, गङ्गास्नानं दिने दिने ॥ ७ ॥ परान्नं वर्जयेद्यस्तु, तस्य पुण्यमनन्तकम् । भुञ्जते (भुंक्ते हि ) केवलं पापं, यो मौनेन न भुञ्जते ॥ ८ ॥ उपवासस्य नियमं सर्वदा 'मौनभोजनम् । तस्मात्सर्वप्रयत्नेन, चातुर्मास्ये' व्रती भवेत् ||९|| इत्यादि भविष्योत्तरपुराणे । इति श्रीतपागच्छाधिपश्रीसोमसुंदरसूरि- श्रीमुनिसुंदरसूरि - श्रीजयचंद्रसूरि - श्रीभुवनसुंदरसूरिशिष्य- श्रीरत्नशेखरसूरिविरचितायां विधिकौमुदीनाम्न्यां श्राद्धविधिमकरणदृत्तौ चतुर्मासीकृत्यप्रकाशक चतुर्थः प्रकाशः C+Ge4646443) GeoGe श्राद्धविधिवृत्तौ चतुर्थः प्रकाशः समाप्तः g®®®4848489124242424424 Se ॥ श्रम् ॥ अथ पञ्चमः प्रकाशः । उक्तं चतुर्मासीकृत्यमथ वर्षकृत्यमुत्तरार्द्धनोत्तरगाथया चैकादशद्वारैराह - पश्वरिसं'संघच्चण-साहम्मिअभत्ति-जत्ततिगं ॥१२॥ जिणगिहिण्हवणं' जिणधणबुढी - महपूअ - धम्मजागरिआ । सुअपूआ ' उज्जवणं, तह तिथपभावणा सोही ॥ १३ ॥ प्रतिवर्षे वर्षे वर्षे जघन्यतोऽप्येकैकवारं संघाचनं चतुर्विधश्रीसंघपूजा १, साधर्मिकभक्तिः साधर्मिकवात्सल्यं २, यात्रात्रिकं ' तीर्थयात्रारथयात्राष्ट। ह्निकायात्रारूपं ३, जिनगृहे स्नपनमहः ४, जिनधनस्य देवद्रव्यस्य वृद्धिमलोद्घट्टनेन्द्रमालादिपरिधानपरिधापनिका धौतिकादि मोचनद्रव्योत्सर्पणपूर्व कारात्रिकविधानादिना ५, महापूजा ६, रात्रौ धर्मजागर्या ७, श्रुतज्ञानविशेषपूजा ८, विविधनुद्यापनं ९, तथा तीर्थस्य जिनशासनस्य प्रभावना १०, शोधिरालोचना ११, चेति विशेषधर्मकृत्यानि यथाशक्ति श्राद्धेन विधेयानीति शेषः । तत्र संघपूजायां निजविभवकुळानुसारेण'भृशांदरबहुमानाभ्यां' साधुसाध्वीयोग्यमधाकर्मक्रीतादिदोषैरंदूषितं वस्त्रकंबलमोऽउनसूत्रोर्णापात्रोदंककतुंबकदण्ड कदण्ड श्रीश्राद्धविधिप्रकरणम 115
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy