________________
श्रीरत्नशेखरसूरिविरचितम् श्राद्धविधिप्रकरणम्
(स्वोपज्ञविवरणसहितम्)
अर्हत्सिद्धगणींद्रवाचकमुनिप्रष्ठाः प्रतिष्ठास्पदं, पंच श्रीपरमेष्ठिनः प्रददतां मोच्चैर्गरिष्ठात्मताम् । द्वैधान्पंच सुपर्वणां शिखरिणः मोदाममाहात्म्यतश्चेतचिंतितदानतश्च कृतिनां ये स्मारयंत्यन्वहम् ॥१॥ श्री वीरं सगणधरं प्रणिपत्य 'श्रुतगिरं च सुगुरुंच । विवृणोमि ' स्वोपज्ञश्राद्धविधिप्रकरणं ' किंचित् ॥ २॥ युगवरतपागणाधिपपूज्यश्रीसोमसुंदरगुरूणाम् । वचना दधिगततत्वः सत्वहितार्थ प्रवर्तेऽहम् ॥ ३॥ तस्य चेयमाचगाया
सिरिवीरजिणं पणमिअ'सुआओ'साहमि किमवि सढविहीं ।
रायगिहे जगगुरुणा'जह भणियं अभयपुटेणं ॥१॥ श्रिया केवलालोकाशोकादिमातिहार्यपंचत्रिंशद्वचनगुणाधतिशायिलक्ष्म्या युक्तं वीरजिनं चरमतीर्थकरं कर्मविदारणा धन्वर्याच वीरः । उक्तं च-विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च'तस्माद्वीर इति स्मृतः ॥१॥रागा परिजेतृत्वाच जिनः। वीरत्वं च' दानयुद्धधर्मवीरभेदात् विधा । यदाहुः-कृत्वा' हाटककोटिभिर्जगदसदारिद्रयमुद्राकर्ष' इत्वा'गर्भशयानपि स्फुरदरीन् मोहादिवंशोद्भवान् । तप्त्वा दुस्तपमस्पृहेण मनसा कैवल्यहेतुं तपस्नेधा वीरयशो दद्विजयतां' श्रीवीरतीर्थेश्वरः ॥१॥ एवं च 'श्रीवीरजिनमित्येतावतापायापगमज्ञानपूजावचनातिशयाश्चत्वारोप्यसूच्यन्त, प्रणम्य प्रकर्षेण भावपूर्वकं मनोवाकायैर्नत्वा'श्रुता सिद्धांतात् पुनरावृत्तिव्याख्यानेन श्रुताद् 'गुरुसंप्रदायादेराकर्णिताच श्रादस्य श्रावकस्य 'वक्ष्यमाणान्वर्थस्य विधि सामाचारी केनोपदिष्ठां ? राजगृहे नगरे' समवस्तेन जगद्गुरुणा 'अर्याद वीरजिनेनाभयकुमार पृष्टेन' यया येन प्रकारेण भणितमुपदिष्टं तयाभूतं किमपि संक्षेपेण “ साहेमि" कथयामीति योगः इति प्रथमगाथार्थः ॥१॥ भादविधौ दाराण्याह। १ बारलिलोकोगुरुः। इति कचित्
दिणत्ति पव्व चउमासग वच्छेर जम्मै किच्चदाराई ।
सहाणणुग्गहट्ठा सढविहिए'भणिजंति ॥२॥ दिनरात्रिर्वचर्तुर्मासर्वत्सरजन्मनां कृत्यानि कार्याणि तान्येव द्वाराणि । अयमर्थः दिनकृत्यरात्रिकेत्यपर्वकृत्यचतुर्मासकृत्यवत्संरकृत्यजन्मकृत्यरूपाणि षद् द्वाराणि श्रादानामनुग्रहार्य श्रादविधौ भण्यंते विवियते इति द्वितीयगाथार्थः ॥२॥ एवं मंगलपूर्वकमभिधेयं अभिधाय योग्यस्यैव विद्या राज्यं धर्मश्च देयानीत्यादौ श्रादधर्मस्य योग्यमाह
सद्वत्तणस्स'जुग्गो भइगपगई विसेसनिउणमई ।
नयमग्गरई तह दढनिअवयणठिई विणिदिट्ठो ॥३॥ ईडग्गुणः श्राद्धत्वस्य योग्यो विनिर्दिष्टः सर्वरिति शेषः। तत्र भद्रकमकृतिर्माध्यस्थ्यादिगुणोपेतो न तु कदाग्रहग्रस्तहृदयादिः । उक्तं च-रत्तो दुट्ठो' मूढो पुव्वं बुग्गाहिओ'अ'चचारि । एए धर्माणरिहा अरिहो पुण होइ मनथ्यो ॥१॥रक्तो दृष्टिरागी यथा भुवनभानुकेवलिजीवः प्राग्भवे भूपभूविश्वसेनखिदंडिभक्तोऽतिकृच्छ्रेण सद्गुरुभिर्बोधितः स्वीकृतदर्शने दृढीकतोऽपि मापरिचितत्रिदंडिगिरा दृष्टिरागोल्लासाद्वांतदर्शनो भ्रांतोऽनंतभनं १। द्विष्टो भद्रबाहुबंधुवराहमिहिरादिवत् २। मूढो वचनभावार्थानाभिज्ञो ग्रामेयककुलपुत्रकवत् । यथा समात्रा राजसेवार्थ शिक्षितो विनयः कार्यः, समाह विनयः कः? तयोचे
श्रीश्राद्धविधिप्रकरणम्