SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसडग्रह गी मेरु शिखाया पण्डकवनम् उत्तर शक प्रासाद शफ प्रासाट पश्चिम रक्त कम्बला चैत्य पांडु कम्बला चैत्य चैत्य अतिपाइकम्बल शक प्रासाद शक प्रासाट दक्षिण चित्र:-१४ इति पण्डकवनवर्णनम् । . अस्य मंदरपर्वतस्य षोडश नामानि सार्थानि तथाहि मंदराख्यदेवाधिष्ठितत्वान्मंदरमिति १ मेरुरिति प्रसिद्ध २ शुभदर्शनत्वात् सुदर्शनः ३ स्वयमेव प्रभया प्रकाशकत्वात् स्वयंप्रभः ४ मनस्तोषकत्वान्मनोरमः ५ सर्वपर्वतोच्चत्वात् तीर्थकृज्जननाभिषेकत्वाच्च गिरिराजः ६ रत्नोच्चयवत्त्व द्रत्नोच्चयः ७ पाण्डवादिशिला समूहत्वाच्छिलोच्चयः ८ लोकमध्यवर्तित्ववाल्लोकमध्यः ९ तत एव लोकनाभिः १० अतिनिर्मलत्वादच्छः ११ सूर्यचन्द्रादयः प्रदक्षिणं भ्रमन्त्यतः सूर्यावर्त्तः १२ सूर्यादिग्रह नक्षत्रतारकाः पृष्ठतो भ्रमन्तीत्यतो ग्रहावर्तः १३ सर्वपर्वोत्तमत्वादुत्तमः १८ मेरुमध्यवय॑ष्टरुचकप्रदेशा दिग्विदिग्निगमोऽतो दिशादिः १५ सकलगिरि मुकुटभूतत्वादवतंसः १६ इमान्येवाभिधानानि अन्यत्र क्वचित् नामान्तरेण क्रमान्तरेण च रूढानि । तथा चोक्तमत्र मंदराख्यो देवः पल्य युकः परिवसतीति मन्दरमिति शाश्वतं नाम मुख्यं प्रतीतं च । ॥ इति मेरुवर्णनम् ॥
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy