SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी ५३ ___ मेरोरुत्तरपूर्वस्यां नोलावदक्षिणस्यां उत्तर कुरुपर्वस्यां कच्छाख्य वेजयप्रतीच्यां माल्यवन्नामा गजदन्तः । शेष पूर्ववत् नवरं समीरणैर्विधूतानि नानाकुसुमगुल्मानि कीर्णपुष्पं विदध ते तथाऽत्र माल्यवन्नामा महर्षि को देवः पल्यायुको वसति ततो माल्यवदिति शाश्वतं नाम । अयं वैडूर्यमयः । इति द्वितीयः । एवं निषधोदीच्यां मेरोराग्नेय्यां मङ्गलावतीप्रतीच्या देवकुरुपान्यां सोमनसनामा गजदन्नः । शेषं पूर्ववत् । नवरं सोमनसदेवादितदभिठापेन वाच्यम् । इति तृतीयः एवं निषधोत्तरस्यां मेरोदक्षिणप्रतीच्यां पद्मविजयपूर्वस्यां देव कुरुप्रतीच्या विद्युत्प्रभाभिधो गजदन्तः । नवरं तदभिलापः । इति चतुर्थः । इति गजदन्तलिरिवर्णनम् । एकलक्षयोजनोच्चो वतुलः । एकयोजनस्यैकादश भागाः क्रियन्ते दशभागोत्तरदशसहस्र. नवतियोजनविशालमूलः । ततो मात्रया मात्रया हीयमानः उपर्येकयोजने योजनैकादशमभागो हीयते । एकादशसु योजनेषु एकं योजनं, शतयोजने नवयो नननि योजनै कादशमभागः, सहस्रयोजनेषु नवति योजनानि योजनदशभागास्तथा च शिखरे एक सहस्रयोजनविस्तार्णो मेरुगिरिरस्ति । अस्य च त्राणि काण्डानि-आदिमं सहस्रयोन नमानं चतुर्विधं काण्डं मृबहुलं पाषाण बहुलं वज्ररत्नबहुलं शर्कराबहुलं च भोमख्यम् । द्वितीय वैडूर्यामिधं अङ्कजं स्फाटिकं काञ्चनमयं रूप्यमयं च त्रिषष्ठिसहस्रयोजनमानं सौमनसं यावत् । जम्बूनदमयं षट्त्रिशसहस्रयोजनमानं शेषं यावछिवरं जाम्बूनदाभिधम् । अत्र चत्वारि वनानि-तद्यथा-समभूतलायां भद्रशालवनं १ भद्रशालास्पञ्चशत योजनापी नन्दना भिख्यं वनं :२. नन्दनात् सार्धद्विषष्ठि सहस्रयोजनोपरि सोम नसार वनं ३ सोमनसात् षट्त्रिंशत्सहस्रयोजनोपरि मेरोः शिखरे पण्डकं नाम वनम् ४ । पण्डकव । चतस्रः शिलाः सन्ति-तद्यथा प्राच्यपाण्डुशिला नाम्नी दक्षिणोत्तरायता पञ्चशतयोजनमाना पूर्वप्रता पाण्डु रुवनान्तिके मार्ध देशत यो न विशाला चतुर्यो ननपृथुला अर्जुनस्वर्णमयो अर्धचन्द्राकारा मेरुचूला सन्मुखवर्ती । तस्या मध्यभागे उतरस्यां च द्वे सिंहासने स्तस्तयोर्यथाक्रमं कच्छवत्सादि विजययो स्तीर्थकृतोर्जन्माभिषेको भवति । यतः पूर्वविदेहे. दक्षिणोत्तर विजययोः समकमेव तीर्थकृत। जायेते । इति प्रथमा शिला । दक्षिणान्तिके पूर्वापरायता पाण्डुकम्बलनाम्नी शिला । विशेष पूर्ववत् । नवरं तत्रैकमेव सिंहासनं । तत्र दाक्षिणात्यभरतक्षेत्रतीर्थकृत् नन्माभिषेकः । यता भर । एकस्मिन् समये एक एव तीर्थक्रदुत्पद्यतेऽन एकमेव सिंहासनम् । इति द्वितीयशिला । प्रतीच्यन्तिक उत्तरदक्षिणायता रक्तशिला नाम्ना शिला शेषं पूर्ववत् । नवरमिहापि पाण्डुशिलावत् द्वे सिंहासने दक्षिणस्यां उदीच्यां च दिशि । तत्र यथाक्रमं पद्मवप्रादिविजययोस्तीर्थकृतोर्जननामिषेकः । द्विसिंहासनकारणं पाण्डुशिलावत् अत्रापि युगपत्तीर्थकृज्जन्मैव । इति तृतीयशिला । अथ चूलियो त्तरस्यां पण्डकवनोदीच्यन्ते रक्तकम्बलनाम्नी शिला शेषं पूर्ववत् । नवरमत्रैकं सिंहासनम् । तत्रैवततीर्थकृज्जन्माभिषेकः । एकसिंहासन कारणं पाण्डुकम्बलावत् । इति तुर्यशिला ।
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy