SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३८ सटीकजंबूद्वीपस ग्रहणी किञ्चिदिति शेषः इति पदगमनिका । भावार्थस्तु पूर्वोक्त एव । अत्र कुत्रचिद् विभक्तिव्यत्ययो विभक्तिलोपो लिङ्गव्यत्ययादिश्च प्राकृतत्वादशक्य एव । अथ गणितपदनामद्वितीयद्वारे गणितपदसङ्ख्यामाविष्करोति । सत्तेवय कोडिसया गउआ छप्पन्नसयसहस्साई । चउणउयं च सहस्सा सयं दिवढच साहियं ।।९।। गाउअमेगं पनरस धणुसया तह धणूणि पन्नरस । सद्धिं च अंगुलाइ जंबुद्दीवस्स गणियपयं ॥१०॥ पूर्वोक्तपरिधिसङग्व्या विष्कभस्य चतुर्थभागेन गुणिता गणितपदं क्षेत्रफलं भवति । तदेवाह सत्तेवयकोडिसयाणउआ सप्तशतकोटिनवतिः अयं भावः नवत्युत्तरसप्तशतकोटयः, छप्पन्न सयसहस्साउंति षट्पञ्चाशत् शतसहस्राणि लक्षाणीति, चउणउयं च सहस्सत्ति चतुर्नवतिसहस्राणि सयंदिवढं शतं द्वयर्धं च साहियंति साधिकं सार्धशतं योजनानामिति शेषः । अधिकपदसूचितं अधिकत्वं दर्शयति गाउयेत्यादि । गाउयमेगाते एका गव्युतिः कोशः । पन्नरसधणुसयंति पञ्चदशशतानि धषि तहत्ति तथा पन्नरसत्ति धणुणित्ति पञ्चदश धषि सद्वित्ति षष्टिश्च अंगुलाइंति अङ्गुलानि, जंबुद्दीवस्सत्ति जंबूद्वीपत्य गणियपयंति गणितपदं इति पद संचालना । भावार्थ: पूर्वोक्त एवेहापि । अथेह वर्षक्षेत्राणि कियन्तीति तृतीयद्वारमाविष्कुर्वन् वर्षाणामभिधानपूर्वकं सख्यां जगादैकगाथापदेन । 'भरवाइ सत्तवासा........ भरहाइत्ति भरतादयः सत्तत्ति सप्त वासत्ति वर्षाः इहेति शेषः । अयं भावः । इह जंबुद्वीपे भरतादयः सप्तवर्षाः क्षेत्राणि । तद्यथा भरतं १ हिमवत् २ हरिवष३ महाविदेहं ४ रम्यक्५ हैरण्यवत् ६ ऐरवतं च ७ । उक्तं च स्थानाङ्गटीकायाम् " भरहे हेमवयंतिय हरिवासंतिय महाविदेहं । रम्मयमेरन्नवयं एरवयं चेव वासाइ ।।" उक्तं चान्यत्र - “ भरहेवयत्ति दुगं दुगं हैमवयैरण्णवयरुवं । हरिवातरम्मय दुगं मझिविदेहुत्ति सगवासा ॥" महधि भरताभिख्यो देवः सामानिकदेवैस्सह पल्यायुष्कः परिवसति । अतो भरत इति शाश्वतं नाम । " द्वीपस्यास्याथ पर्यन्ते स्थितं दक्षिणगामिनि । नानावस्थं कालचभिरत क्षेत्रमीतिम् ।।
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy