________________
सटीकजंबूद्वीपसङ्ग्रहणी
३५
गुणीकृता एककाटिएकोननवतिलक्षाष्टसप्ततिसहस्राष्टशतषट्सप्ततिसख्या (१८९७८८७६) व्यावहारिकपरमाणुकृत एकशतचतुःसप्ततिभागानां जायते । सा वर्गमूलाङ्केन शोधयेत् । तदा वर्गमूलाङ्के त्रिंशद्गुणीकृते एककोटिएकाननवतिलक्षाः सप्त तसहस्रषट्शतविंशति (१८९७३६२०) सख्या जायते । तावती च पूर्वस्मादङ्काद्धापिता सती द्विपञ्चाशच्छतषड्पञ्चाशत्सडख्या (५२५६) शिष्यते। वर्गमूलाङ्केन सहाथ बादरपरमाणोरेकशतचतुःसप्तति (१७४) भागाः क्रियन्ते तावन्तः त्रिश
द्भागाः स्थायाः । अथ शिष्टाङ्कः षड्लक्षद्वात्रिंशत्सहस्रचतुःशतचतुष्पञ्चाशत्सडख्यया (६३२४५४) गुणितः त्रिशतद्वात्रिंशत्कोटयकचत्वारिंशल्लक्षाष्टसप्ततिसहस्रद्विशतचतुर्विशतिसख्यामितो (३३२४१ ७८२२४) जायते। सा च सख्या वर्गमूलाङ्केन शोधयेत् तथाहि वर्गमूलाङ्कः द्विपञ्चाशच्छतषट्पञ्चाशत्सख्या गुणितस्तावानेव (३३२४१७८२२४) जायते । सोऽङ्कश्च पूर्वस्याः सख्याया हापितः न कापि शेषा वर्धते । वर्गाङ्केन सहाथ एकैकस्य बादरपरमाणोरेकशतचतुःसप्ततिभागकरणे योऽङ्क आगतस्स वर्गाङ्केन भग्ने यः शिष्ट सोऽप्यङ्कः प्रत्येकं षडलक्षद्वात्रिंशत्सहस्रचतुष्पञ्चाशद्गुणितः यादृशः खण्डोऽधिगच्छति तादृशा द्विपञ्चाशच्छतषट्पञ्चाशत्खण्डाः स्थाप्याः । सर्वेषां मीलने वर्गमूलसडख्या त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतियोजनानि ३,१६,२२७ त्रयः कोशाः ३ अष्टाविंशत्युत्तरशतं धनूंषि १२८ सार्धत्रयोदशाङ्गुलानि १३॥ एको यवः १ एका यूका १ एको लिक्षः १ षट्वालाग्राणि ६ सप्तत्रसरेणवः ७ पञ्चबादराणवः ५ एकबादराणोरेकशतचतु:सप्ततिः खण्डाः क्रियन्ते तावन्तः त्रिंशत्खण्डा: ३० तथा सप्तत्युत्तरै कशतखण्डेषु प्रत्येकस्य षटलक्षद्वात्रिंशत्सहस्रचतुःशतचतुष्पञ्चाशद्भागाः क्रियन्ते तावन्तः पञ्चसहनद्विशतषट्पञ्चाशत्खण्डाः (५२५६) एतावान् जम्बूद्वीपरिधिः । तथा चोक्तं लोकप्रकाशे पञ्चदशसर्गे विनयविजयोपाध्यायै
" परितः परिधिस्त्वस्य श्रूयतां यः श्रुते श्रुतः । लक्षत्रय योजनानां सहस्राणि च षोडश ॥ क्रोशास्त्रयस्तदधिकमष्टाविंशं धनुःशतं ।
त्रयोदशाङ्गुलाः सार्धा यवाः पञ्चैकयूकिका ॥" अत्र प्रसङ्गागतं गणितकोष्टकं लिख्यते बालबोधार्थम् । अनन्तैः सूक्ष्माणुभिरेको बादराणुरष्टभिर्बादराणुभिरेकस्त्रसरेणुरष्टभिस्त्रसरेणुभिरेको रथरेणुरष्टभी रथरेणुभिरेको वालाग्रं अष्टभिर्वालागैरेको लिक्षः, अष्टभिलिझरेका यूका, अष्टभियूकाभिरेको यवः, अष्टभिर्यवैरेकमङ्गुलं, षभिरङ्गुलैरेकः पादः, द्वाभ्यां पादाभ्यां वितस्तिः, द्वाभ्यां विस्तिभ्यामेको हस्तः, द्वाभ्यां हस्ताभ्यां एका कुक्षिः, द्वाभ्यां कुक्षिभ्यामेकं धनुः, द्विसहस्र वनुभिरेकः क्रोशश्चतुर्भिः कोशैरेकं योजनम् ।