________________
सटीक जंबूद्वीपसङ्ग्रहणी
तथाहि रक्तत्रतीरक्तयोरुत्पत्तिस्थानं शिखरिगिरिस्थः पुण्डरीकहृदः, स च विस्तारे पञ्चशती योजनानां, अशीतिभक्तेषु च तेषु सपादष योजनानि लभ्यन्त इति तावांस्तयोर्मुखविस्तारः । स्थापना प्राग्वत् । एवं रूप्यकूलानिष्पत्तिभूमी रुक्मिस्थो महापुण्डरीकहृदः, स च विस्तृतौ सहस्रं योजनानि तेषु ' चाशीतिभक्तेषु सार्द्धद्वादशयोजनानि प्राप्यन्तेऽतस्तावान् मूलविस्तारः रूप्यकूलायाः । स्थापना रोहितावत् । अथ च नारीकान्तानिर्गमः नीलवन्निष्ठः केसरिद्रहः । अस्य विस्तारस्तिगिञ्छिवद् द्वे सहस्रे योजनानि, अशीतिभक्तेषु तेषु लब्धानि पञ्चविंशतियजनानि नारीकान्तामुखव्यासः । स्थापना हरिसलिलावत् ।
अथ च मेरोरुदीच्यां दक्षिणाभिमुखीनां स्वर्णकूला - नरकान्ता - शीताख्यानां तिसृणां सरितां चत्वारिंशदविभक्ते स्वखहूदवस्तारे यद्यदाप्यते तत्तन्मूलविस्तृतिः । तत्र शिखरिस्थः पुण्डरीकहूदः स्वर्णकूलानिर्गमस्थानं, स च योजनानां पञ्चशती विस्तृतिः, चत्वारिंशद्भक्तेषु तेषु योजनेषु लब्धानि सार्द्धद्वादशयोजनानि इति तावान्स्वर्णकूलामुखविस्तारः । स्थापना रोहितांशावत् । अथ च रुक्मिस्थो महापुडरीकहूदः नरकान्तोद्भवास्पदं, तस्य च सहस्रे योजनेषु चत्वारिंशद्भक्तेषु लब्धानि पञ्चविंशतियोजनानि । अतस्तावान्नरकान्तामूलविस्तारः । अत्रापि स्थापना पूर्ववत् । एवं शीतानिर्गमस्थानं नीलवन्निष्ठः केसरिहूद:, स च द्वे सहस्रे योजनानि विस्तृतः; चत्वारिंशद्भक्तेषु तेषु पञ्चाशद् योजनानि लभ्यन्त इति तावांस्तस्यां मुखविस्तारः । स्थापना शीतोदावत् । अत इदमत्राप्यापन्नं
स्वकीयहूद विस्तारेऽशीतिभक्ते यदाप्यते । उत्तराभिमुखीनां सा नदीनां मूलविस्तृतिः ॥१॥
66
" दक्षिणाभिमुखीनां तु स्वकीयहृदविस्तृतौ । चत्वारिंशदविभक्तायां यल्लब्धं तन्मिता मता ॥२॥
२३
www
व्यवस्थेयमुत्तरस्यां सरितां मन्दराचलात् । इदमैपर्यं यत्पूर्वस्माद्विपर्ययते ति ॥३॥ "
सर्वासामपि मूलविस्तारे दशध्ने प्रान्तविस्तारो भवति । यथा गङ्गासिन्धवोर्द्वाषष्टि योजनानि द्वौ च क्रोश । एवं रक्तारक्तत्रत्योरपि ज्ञेयम् । एवं रोहितांशा - रोहिता - स्वर्णकूला- रूप्यकूलाहरिकान्ता - हरिसलिला - नारीकान्ता - नरकान्ता - शीतोदा - शीतानामपि स्वखमूलविस्तारं विचिन्त्य प्रतिस्वं प्रान्तविस्तृतिः स्वधियावसेया । एतासां यत्र यत्र यावान् विस्तारः तस्य पञ्चाशत्तमो