________________
सटीक जंबूद्वीपसङ्ग्रहणी
શું
अथ कथं तर्हि शाश्वतानपि व्याख्यास्यन्ति इत्यत आह-सुत्ता इति अथवा स्वात्मलघुतां दर्शयन् स्वकपोलकल्पितत्वं निराचिकीर्षयाऽऽह सुत्तेति सूत्रयति अल्पाक्षरैर्बहून् अर्थान् इति सूत्रं तस्मात् अथवा सुष्ठु पूर्वापरविरोधाबाधितं उक्तं वचनं परमपुरुषप्रणीतप्रवचनं तस्माद् अथवा सूतं उत्पन्नं अर्थरूपेण तीर्थकृद्भ्यः शब्दरूपेण च गणभृद्भ्य इति –
" अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । ”
1
इति भद्रबाहुस्वामिवचनप्रामाण्यात् तस्मात् " सर्वत्र लवरामवन्द्रे ' ८-२-७९ इति रलुकि, 'अनादौ शेषादेशयोर्द्वित्वमिति ' ८-२-८९ तद्वित्वे सूतपक्षे ' सेवादौ वा ' ८-२-९९ इत्यनेन वा च ' डसेस्तोदोदुहिहिन्तो लुकः ' ८-३-८ इति डसेलुकि, " जास्ङसित्तोदोद्वामि दीर्घः, ८-३-१२ इति दीर्घे च सुत्ता इति पञ्चम्येकवचनं, सूत्रं च स्वयं बुद्धगणधरादिभाषितमेव न त्वन्यत् । यत उक्तं
6
सुतं गणहररइयं तहेव पत्तेयबुद्धरइयं च ।
सुकेवलिणा रइयं अभिन्नदसपुब्विणा रइयं ॥
,
तस्मात् उद्धृत्येति शेषः । अनेन शास्त्रस्य सूत्रमूलकतया तात्त्विकरूपं सूत्रपारतन्त्र्यं च प्रख्यापितं भवति । अत एव च तीर्थकृदाज्ञाराधकत्वेनाज्ञाव्याकोपस्य महापायनिबन्धनत्वं निराकृतं
यदवादि
• वचनाराधनेया खलु धर्मस्तद्बाधया त्वधर्म इति ।
इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥१॥
,
अस्मिन् हृदयस्थे सति हृदयस्थस्तदूवतो मुनीन्द्र इति हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः । भगवदाज्ञाविराधकतया स्वच्छन्दयतिपरिणतिः संसारमोचकादिपरिणतिरित्यपायाधिकत्वादशुभत्वमेवेति निर्णीतम् । यदुक्तं -
' गलमच्छभवविमो अंगविसिन्न भोईण जारिस |
एसो मोहासुहो वि असुहो तप्फलओ एवमेसो वित्ति ॥ १॥
,
ननु ' प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते । ' इति न्यायात् किमस्य सूरेः प्रवृत्ति प्रयोजनमित्यारेकामपाकर्त्तुमाह, सपरहेउति स्वपरहेतोः, स्व आत्मा ग्रन्थकर्तुः परः तदतिरिक्तनिखिलभव्यसत्त्वः तयोहेर्तुः कारणं तस्मात्, अत्रापि ' सर्वत्र लवरामवन्द्रे ८-२-७९, ' कगचजटडतदपयवां प्रायो लुकू ८-१-१७७ इत्यादिना रूपसिद्धि: कर्तव्या, एवमग्रेऽपि भाव्यम् । अनेन श्लोकेन ' प्रवृत्तिप्रयोजकी भूतज्ञानविषयत्वलक्षणमनुबन्धचतुष्टयं सूचितं भवति ।
"