SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १० सटीकजंबूद्वीपसङ्ग्रहणी इति यावत् , तेन ज्ञापयितुं योग्या विषया अर्था ज्ञेयाः तान् जम्बूद्वीपपदार्थान् — सर्वत्र लबरामवन्द्रे' ८-२-७९ इति वलोपे ' अनादौ शेषादेशयोर्द्वित्वं ८-२-८९ इति दद्वित्वे ' हस्वः संयोगे' ८-१-८४ इति हूस्वे च जंबुद्दीवपदं – ' कगचजटडतदपयवां प्रायो लुक् ' ८-१-१७७, अवर्णो यश्रुतिरिति ८-१-१८० यत्त्वे, “ हूस्वः संयोगे' ८-१-८४ इति हस्वे च पयेति पदं ततः · सर्वत्र लवरामवन्द्रे' ८-२-७९ इति रलुकि 'अनादौ शेषादेशयोत्विं ८-२-८९ इत्यनेन थो द्वित्वे च पयत्थेति — जस्शसो लुगिति' ८-३-४ इति लुकि 'टाण शस्येदिति ८-३-१४ अस्य एत्वे पयत्थे इति द्वितीया बहुवचनं । अत्र शाश्वतानित्यध्याहार्यं । ननु शाश्वतानिति कथमध्याहार्यमिति चेत् , अशाश्वतानां पदार्थानां बहुत्वाद् व्याख्यातुमशक्यत्वेन ग्रन्थकृताऽपरिगणितत्वात् , वस्तुतस्तु भावानामनभिलाप्याभिलाप्यभेदेन द्विधात्वं, तत्राऽप्यभिलाप्येभ्योऽनभिलाप्यानामानन्त्यं, ते तु अनभिलाप्याः वागतिशयवद्भिस्तीर्थकृद्भिरपि वक्तुमशक्याः । अथाभिलाप्या अपि अनन्तास्तानपि सर्वान् वक्तुं न क्षमा अर्हदादयः, आयुषः परिमितत्वाद् वाचः क्रमवर्तित्वाच्च । याँश्च भावांस्तीर्थकरा भणन्ति, ताननन्तभागोनान् गणेशा अवधारयन्ति, अवघृतांश्च अनन्तभागहीनान् सूत्रे निबध्नन्ति, यदुक्तं “ पन्नवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । ... पन्नवणिज्जाणं पुण अणंतभागो उ सुयनिबद्धो ॥" । अतः शाश्वता अपि सर्वे वक्तमशक्याः, किं पुनरशाश्वताः, किञ्चाशाश्वतानां तत्कालिकानां व्याख्यानेऽल्पसत्त्वानामुत्तरकालिकानां शिष्याणां सम्मोहः स्यात् , त्रिकालिकानां व्याख्याने केवलि-श्रुतकेवलिव्यतिरिक्तानां शक्त्यभावः । न चायं केवली नापि श्रुतकेवली, जंबूस्वामिन आराल्केवलज्ञानस्येह व्यवच्छेदाद् यदुक्तं - " मण१ परमोही२ पुलाए३ आहारग ४ खवग ५ उवसमे ६ कप्पे ७ । संजमतिय ८ केवल ९ सिझणाय १० जंबुम्मि वुच्छिन्ना ॥" ( कल्पसूत्रा – स्थविरावली – टीका ) श्रुतकेवलित्वं तु चतुर्दशपूर्वविदामेव तत्त्वं तु आस्थूलभद्रस्वामि, किञ्च श्रुतकेवलिसंख्यायाः परिमितत्वेन गणितत्वात्तथाचाहुः कुमारपालक्ष्मापालप्रबोधप्रवीणा हेमचंद्रसूरिपादाः । “ केवलिचरमो जंबूस्वाम्यथ प्रभवप्रभुः । शय्यंभवो यशोभद्रः संभूतिविजयस्तथा ॥ __ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ।" १. चतुर्दशपूर्ववित्वं इत्यर्थः ।
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy