________________
सटीकजंबूद्वीपसङ्ग्रहणी
८-२-४२
" इति ज्ञो णत्वे, "ज्ञो णत्वेऽभिज्ञादावि " ति ८-१-५६ अ' उत्वे च सव्वण्णुमिति । अनेन -
-
सर्वज्ञस्तथा
" सर्वं पश्यतु वा मा वा इष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥
मुक्तस्तन्निरासो दृश्यः । ननु
" तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ॥ " इति नैयायिकाम्युपगतश्च
66
१
२
इति कैश्चिदभ्युपगत
ति न्यायाद् वा कथं सर्वज्ञप्रतीतिरिति चेत्
सर्वज्ञोऽसाविति ह्येतत् तत्कालेऽपि बुभुत्सुभिः ।
तज्ज्ञानज्ञेय विज्ञान र हितैर्गम्यते कथम् ॥ " इति " नासर्वज्ञः सर्वज्ञं जानाती "
" सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद् यथा ।
अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः " इति इत्थञ्च मुक्तस्य सर्वज्ञानवत्त्वबोधनेन नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरिति तौतातीतमतं, अविद्यानिवृत्तौ विज्ञानसुखात्मकः केवल आत्माऽपवर्गेऽस्तीति वेदान्तिमतम्, अनुपप्लवाचित्तसन्ततिरिति बौद्धमतम्, अखण्डज्ञानसुखसन्ततिरेव मुक्तिरिति ऋजुसूत्रनयावलम्बिमतं, कर्मक्षयाविर्भूतं सुखसंवेदन मुक्तिरिति सङ्ग्रहनयावलम्बिमतं चापास्तं द्रष्टव्यम् । तन्निरासप्रकास्थ न्यायालोकविवरणादौ या विस्तृतस्ततो वेदितव्यः ।
ननु सर्वज्ञं इत्येवास्तु किं जिनमिति विशेषणेन इति चेन्न, कैश्चित् सकर्मकाणिमादिविचित्रैश्वर्यवन्तः सिद्धाः प्रतिपादितास्तद्व्यवच्छेदनसार्थकत्वात्, उक्तञ्च तद्दर्शनाभिनिविष्टैः । — " अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा ।
मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥ " इत्यादि ।
किञ्च जिनमित्यनेन कर्मबीजाभाववन्त एव प्रतीयते । ततश्च पुनर्भवागमाभाव इति ।
अकारस्य
अणिमा महिमा चैव गरिमा लघिमास्तथा ।
प्राप्तिः प्रकाभ्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ ( अमरकोश - पङ्क्ति-७२ )