________________
॥ ॐ ही अहूँ नमः ॥ ॥ श्री शखेश्वर पार्श्वनाथाय नमः ॥
॥ नमो नमः श्रीगुरुनेमिसूरये ॥ सूरिपुरन्दर-श्री हरिभद्रसूरि भगवद् विरचिता
जंबूहीपसग्रहणी पूज्यपाद आचार्य महाराज श्रीविजयोदयसूरीश्वरजी
विरचितवृत्तिसहिता ॥
नमः श्रीवीतरागाय लोकालोकार्थसार्थप्रकटनतरणिं वर्द्धमानं जिनेन्द्र प्रोदामस्थामधामानमशुभशमनं गौतमाय गणेन्द्रम् । सिद्धान्ताम्भोधिपोतं धृतिमतिभवनं नेमिसूरिं मुनीन्द्रं नत्वा स्तुत्वा च भक्त्या त्रिभुवनमहितामुक्तिदेवी पवित्राम् ॥१॥ प्रौढालङ्कतिमन्थरा यतिपरा मानोन्नता मञ्जुला वाणी श्रीहरिभद्रसूरिधिषणा संवादिनी क्वार्थदा । भक्तिव्यक्तिकृतोद्यमोदयमुखा वाणी क्व चेयं तथाऽ. प्येषाऽस्या विवृतौ प्रसादशरणा श्रीनेमिसूरेगुरोः ॥२॥ नाहं क्षमोऽस्मि किल यद्यपि मन्दबुद्धिः खद्योतसोदरविकासनशक्त्युपेतः । किञ्चित्तथापि विवृणोमि निजात्मशुद्धौ मत्तश्च मन्दजनबोधहिताय सम्यक् ॥३॥
किञ्चगुणोऽस्त्ययं प्राक्तनसूरिराजां टीकाकृतौ मादृश ईहते यत् । मृगाण्डसंपर्कवशात् पटेऽपि दृष्टोऽस्ति गन्धो व्यवहारविज्ञैः ॥१॥