________________
सटीक जं द्वीपसङ्ग्रहणी
प्रत्येकं शतयोजनोच्चा, उत्सेधतुर्यो भागश्च पञ्चत्रिंशतियोजनानि ते क्षित्यवगाढाः काञ्चनगिरयः २०० । देवकुरूत्तरकुरुस्था: सीतासीतोदा पूर्वापरतटस्थाः प्राक्प्रतिपादितस्वरूपा यमकद्वय चित्रयुगलरूपाश्चत्वारो नगाः प्रत्येकं सहस्रयोजनोच्चाः तच्चतुर्थो भागः सार्धद्विशतयोजनानि तावन्ति च पृथ्वगाढास्ते चत्वारोऽपि प्रत्येकं ४ । अथ चुल्लहिमवच्छिखरिणौ भरतैरवत सीमाकारिणौ हिमत्रद्धैरण्यवद्दाक्षिणात्योदीची नौ कीर्त्तितस्त्ररूपौ नगौ प्रत्येकं शतयोजनोच्चौ उत्सेधतुर्य भागश्च पञ्चविंशति योजनानि पृथिव्यत्रगाढौ तावुभौ २ । अथ महाहिमवद्रूपिणी हिमवद्धिरण्यवत्सीमाकारिणौ हरिवर्षदक्षिणात्योदी चीनौ प्रतिपादितस्वरूपात्रचलो प्रत्येकं द्विशतयोजनोच्चावुत्सेधतुर्य भागश्च पञ्चाशद्योजनानि अतस्तावन्ति योजनानि मह्यवगाढौ तावुभौ वर्षधरनगौ २ । अथ निषधनीलवती हरिवर्षरम्य सीमाकारिणौ विदेहदाक्षिणात्योदीचीनौ गजदन्तनिर्गमौ परिकीर्तितस्वरूपौ प्रत्येकं चतु:शतयोजनोच्चौ उच्चत्वचतुर्थभागश्चैकशतयोजनानि अतस्तावन्ति योजनानि पृथिव्यवगाढौ तावुभावपि प्रत्येकं वर्षधरनगौ २ । इत्यादिजम्बूद्वीपाष्टषष्टयुत्तरद्विशतसङ्ख्यनगावगाहविचारः । एवं धातकी - पुष्करार्धयोरपिं । अथ षट्सप्तत्युत्तरैक सहस्रनगानामुच्चत्वावगाढत्वविचारः । तयोः प्रत्येकमष्टषष्ठिसङ्ख्यानामायत वैताढ्यानामुच्चत्वमवगाढत्वं च प्रत्येकं पविंशतियोजनानि सपादषड्योजनानि जम्बूद्वीपायतवैताढ्यवद् विज्ञेयम् । एवं षट्त्रिंशदुत्तरैकशतसङ्ख्या आयतवैताढ्याः । षोडशसडुख्यानां वृत्तवैताढ्यानां जंबूद्वीपवृत्तवैताढयवत् प्रत्येकं सहस्रोयोजनोच्चत्वं साधद्विशतयोजनावगाढत्वं च ज्ञेयम् । चतुःषष्ठिसङ्ख्यानां वक्षस्कारगिरीणां जम्बूद्वीपवक्षस्कारवत् कुलगिन्तिके प्रत्येकं चतुःशतयोजनोत्सेधत्वं शतयोजनावगाहश्च नद्यन्तिके च पञ्चशतयोजनोच्छयत्वं सपादशतयोजनावगाढत्वं च वाच्यं ६४ | गन्धमादनादीनां षोडशसङ्ख्य गजदन्तगिरीणां जम्बूद्वीपगजदन्तवत् वर्षघरपर्वतान्तिके प्रत्येकं चतुःशतयोजनोत्सेधत्वं शतयोजनावगाढत्वं च मेर्वन्तिके च पञ्चशतयोजनोच्छ्रत्वं सपादशतयोजनावगाढत्वं च विज्ञेयमिति । अष्टशतसङ्ख्यानां कनकगिरीणां प्रत्येकं जम्बूद्वीपकनकगिरिचत् शतयोजनोच्चत्वं पञ्चविंशतियोजनावगाढत्वं च विज्ञेयम् ८०० । अष्टानां यमकगिरीणां अष्टानां चित्रविचित्रगिरीणां च प्रत्येकं जम्बूद्वीपयमकद्वयवच्चित्रद्वयवच्च सहस्रयोजनोच्छ्रयत्वं सार्धद्विशतयोजनावगाढत्वं च वाच्यमित्येषां मीलने षोडश नगानां १६ । चतुर्णां चुल्लहिमवतां चतुर्णां च शिखरिणां जम्बूद्वीप चुल्ल हिमवच्छिखरीवत् प्रत्येकं शतयोजनोत्सेधः पञ्चविंशति. योजनावगाहश्च ज्ञेयोऽष्टानां नगानामिति ८ । चतुणां महाहिमवतां चतुणां रूपिणां च जम्बूद्वीपमहाहिमवद्वपिवत्प्रत्येकं द्विशतयोजनोच्छ्रयत्वं पञ्चाशद्योजनावगाढत्वं ज्ञेयमष्टानां नगानामिति ८ । चतुर्णां निषधानां चतुणां नीलवतां च जम्बूद्वीपनिषधनीलवद्वत्प्रत्येकं चतुःशतयोजनोच्छ्रयत्वं शतयोज - नावगाढत्वं च ज्ञेयमष्टानां नगानामिति ८ । चतुर्णामीक्षुकाराणां भरतयुगलयुगैरवतयुगलयुगान्तरितानां पूर्ववर्णितस्वरूपाणां पञ्चशतयोजनोच्छ्रयत्वं तच्चतुर्थो भागश्च सपादशतयेोजनानि अतस्तावन्ति योजना
८७