________________
सटीकजंबूद्वीपसङ्ग्रहणी
६९
अथ हूदाख्यं नवमं द्वारं गाथापश्वान प्रदर्शयति ।
महदह छप्पउमाइ कुरुमु दसगंति सालसगं ॥२०॥ महत्ति महान्तः, सहस्रद्विसहस्रयोजनायतत्वात् दहत्ति हूदाः, छत्ति षट् हिमवन-महाहिमवन्-निषध-नीलवद्-रूपि-शिवर्याख्यनगषट्कसंस्थितवात् षट्सलाकाः पउमाइत्ति पद्मादयः, पद्ममहापद्मतिगिच्छिकेशरिमहापुण्डरीकपुण्डरीकाभिधाः, कुरुमुत्ति देवकुरूत्तरकुरू सु, दसगंतित्ति निषधादिनीलवन्तादि दशकमिति, सर्वाग्रसङ्ख्यामाह सोलसगंति षोडशकमिति । हिमावदादिषु नगेषु पद्मादयः षड्दाः कुरूषु च निषधाद्या दश एकत्रोकृताश्च सर्वे षोडश सङ्ख्या हुदा जबूद्वीपे भवन्तीत्यर्थः । इदमत्र हृदयम् । अत्र जम्बूद्वीपे प्राग्व्यावर्णितहिमवतो मध्यभागे पद्नामा हृदः दशयोजनावगाढः, पूर्वापरसहस्रयोजनायतः, दक्षिणोत्तरपञ्चशतयो ननविशालः, द्वारत्रयभूषितः परितः पद्मवरवेदिकावनखण्डपरिकरितोऽस्ति । तस्य पूर्वपश्चिमदिशोलेवणाभिमुखे द्वे द्वारे स्तः । मेरुसन्मुवं चैकं । तानि च प्रत्येकं स्वत्वदिग्विशालत्वाशीतितमभागहीनानि तद्यथा पूर्वपश्चिमय हूंदविशाल पञ्चशतयोजनानि तदशातिमो भागः सपादषड्योजनानि तावन्माने च पूर्वपश्चिमद्वारे, मेर साम्मुखीनो हृदः सहस्रयोजनविशालः तदशीतितमो भागश्च सार्धद्वादश योजनानि तावन्मानं च उदीच्यं द्वारं तानि च वन्द नमालिकायुतानि नदानिर्गमानि च । यत उक्तं
"गिरंग्स्योपरितले हृदः पद्मदाभिधः योजनानि दशोद्विद्धः सहस्रयोजनायतः ॥१॥ शतानि पञ्चविस्तीर्णो वेदिकावनमण्डितः । चतुर्दिशं तोरणाढयत्रिसोपानमनोरमः ॥२॥ अयं च वक्ष्यमाणाश्च महापद्माहूदादयः । सर्वे पूर्वापरायामा दक्षिणोत्तर विस्तृताः ॥३॥"
तत्र मध्यभागे षड्वलयसंवलितं श्रियो देव्या आवासस्थानभूतमेकं कमलमस्ति, तकियोजनायातविशालं अर्द्धयोजनपृथुलं जलादर्धयोजनोच्च दशयोजनानि जलावगाढं सर्व च तत्स र्धदशयोननोच्चं परितो जगतो परिकरितम् । जगती जगतीगवाक्षादिवर्णनं जंबूद्वीपजगतावत्तच्चान्यत्र जिज्ञासु ग द्रष्टव्यं, विस्तरभयादत्रालिखितत्वात् , वक्ष्यते किञ्चिदुत्तरत्र । नवरमयं विशेषः जंबुद्वीपप्रावारोऽष्ट वेव योजनान्युच्च । अ त्योऽयं तु दशयोजनानि जलावगाढः अष्टौ योजनानि च जलादुप िततः सस ङ्ख्ययाऽष्टादश योजनान्युच्चः यत्तु जंबूद्वीपप्रज्ञप्तिमूलसूत्रे-'जंबुद्वीप जगइमाण" इत्युक्त तजनल वगाहप्रमाणमविवक्षितत्वैवेति तद्वृत्तौ । वज्रमय मूल रिष्टरत्नमयकंदं वैडू रत्नमयनालं वैडूर्यरत्नमय बाह्यपत्रं जाम्बूनदाभ्यन्तरपत्रां अत्रायं विशेषो बृहत्क्षेत्रवृत्यादौ बाह्यानि चत्वारि पर्णानि वैडूर्यमयाने शेषाणि तु रक्तसुर्वणमयानि उक्तानि । अपि च जंबुद्वीवपन्नत्तीसूत्र जाम्बूनदं इषद्रक्त स्वर्ण तन्मयाभ्यन्तरपत्राणि । सिरिनिलयक्षेत्रविचारवृत्तौ पीतस्वर्णमयान्युक्तानीति ज्ञेयम् । रक्तस्वर्णमय केशरं विविधमणिमयबोज अर्धयोजनायतविशालैकक्रोशोच्चकनकमयकर्णिकं । यत उक्त