________________
पाक्षिक टिप्पणी]
[३९ - 'आधात्ययोः साधिकाद्वर्षादाऽऽचेलक्यं, शेषाणां सर्वेषां न तत् ।"
समाधिरत्रः-वर्तमानचतुर्विशत्यपेक्षयाऽऽद्यान्त्ययोर्यावत्रयोदश मासान् सचेलकत्वं चातः परं, परेषां न तथेति सत्यपि . सद्भ तेनाऽनगारवदाऽऽचेलक्यं तीर्थाधिपानामौपचारिकं, किंतु वास्तवमेव, तच्चभवत्यसति वस्त्रे, असत्ता चापगमे देवदूष्यस्य 'असंत चेला य तित्थयरा सव्वे' इति पञ्चकल्पभाष्य वचनात् , ६७"तीर्थकरा जिना असच्चेलाः सन्तोऽचेला भवन्ति शक्रोपनीतदेवदृष्यापगमान्तर" मिति पञ्चाशकसूत्र वृत्त्यादिषु समुपलम्भाच्चेति ।
श्री धर्मसागरोपाध्यायाः"न मरीचिवचनमुत्सूत्रं कोटाकोटीसागरपरिमित संसृतेः ।"
श्री विनयविजयोपाध्यायाः६८समाधिरत्र: "दुब्भासिएण इक्केणे" त्याद्यविरुद्धवाक्यावलोकनार्भाषितता नियतैव, वृद्धिश्वानन्तसंसारस्योत्सूत्रभाषिणो भवत्यनालोचकस्य तीव्राध्यवसायस्य च, स तु तत्र मन्द एव, 'इत्थंपि इहयंपीति' वाक्येऽपिशब्दद्वयोल्लेखात् , व्याख्यातं चाभियुक्तैरावश्यकऽऽवृच्योरप्येवं, उत्सूत्र-दुर्भाषितयोश्च स्पष्ट एव भेदः, ७१"उस्सुत्तो" “दुब्भासिओ" इत्यनयोः स्पष्टं पार्थक्यात् । “उस्सुत्तभासगाण” मित्यादौ चानन्तसंसारिता स्पष्टितैव सूत्रोत्तीर्णवादिनाम् ।
श्रीधर्म-स्वर्गते वज्रस्वामिनि तुर्य व्युच्छिन्न संहननं ।" श्री विनय०-“संहननवतुष्कं व्युच्छिन्न।" समाधिरत्र:"दुष्कर्मावनिभिद्ववे स्वर्गमीयुषि । व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथे-"
ति परिशिष्टोक्तेः । "तमि य णिव्वुए अद्धणारायं वुच्छिण्णं” इति वृत्तिचूर्योः स्पष्टोल्लेखाच्च तूर्यस्यैवोच्छित्तिः, तन्दुल वैचारिकादि तु संहननावस्थानकालज्ञापकतयोपपद्यते । __उपदोल्लेखमात्रेण मुख्यानि, समासान्तानित्यत्वादिसमाधेयानि तूपेक्ष्यन्ते, अवेक्ष्यते च 'इत्यार्यरक्षित स्वरूप"मित्युपसंहारे आर्यरक्षभिन्नानामार्यरक्षितानां चरित्रं न्यस्तमित्यनुपयोगसाम्राज्यं, भवति च च्छमस्थस्यानाभोगो ज्ञानावृतिमच्चादिति न केषांचिदपि हानिरनाग्रहवतामिति ध्येयं सुधीभिः ॥
अत्र प्रथमं 'कल्प' शब्दवाच्यस्याचतया कल्पकर्षणकालादिज्ञापकतया चाचेलक्यादिः कल्पो दशधाऽऽख्याय श्रवणं तत्सहचारिचैत्यपरिपाट्यादिकमष्टमतपः सोदाहरणं च महाफलमिति दर्शितं ।
आचेलक्य "विधानानवधारणेन 'ये सर्वथा नाग्न्यं प्रतिपन्ना' न ते विज्ञाः, यतो न