________________
तेन हेतुना यथाऽवसरं श्रीमद्भिः पूज्यवर्यैः वीतरागोपासना-श्रुतभक्ति-कर्मग्रन्थादिसूक्ष्मतात्विकविचारसुदक्षः धर्मस्नेहप्रपूरितकरुणाप्रेरितैः सद्भिः सूर्योदयसागरगणिभिः सुतरां प्रयतनेन राद्धप्रगुणितरसवतीस्थालवत् समस्तं हि सङ्कलनं पूज्याऽऽगमोद्धारकश्रीवर्यकृपाकटाक्षद्रव्यप्राप्तिलम्भेनाऽपि वञ्चितस्य पूज्यवर्याणामगाघशक्तिप्रसरबजाऽपेक्षयाऽतितुच्छशक्तिमतोऽपि प्रकृतपंक्तिलेखकस्य पुरतः समुपन्यस्तं, साग्रहं सानुरोधं चैतत्सङ्कलनं व्यवस्थितरूपेण सम्पादनाय प्रेरितोऽयं जनः, समर्थितं च विशदाऽऽन्तरनावप्रकटीकरणेन यत्-"ज्याऽऽगमचिरस्थायित्वक्लप्तिप्रवराध्यवसायवतां बहुश्रुतप्रव. राणां वादिमतंगजसिंहानां सूरिवर्याणांप्रवरातिशयितवैदुभ्यं यार्थार्थेन विद्यावारिधिव्यालोडनक्षमविदुषां मनसि प्रतिबिम्ब्येत, तथाऽयं प्रस्तावनासङ्ग्रहः सुरुचिरशैल्या समुपस्थापनोयः विद्वज्जनसमक्षं" इति प्रबलप्रेरणयाप्रोत्साहितोऽयं सेवकजनः । ___ उररीकृतश्चामोदपूर्णहृदयेनैतत्व्याजेन पूज्यपादाऽऽगमोद्धारकश्रीणांद्रव्य तोऽपरिचितव्यक्तित्वस्य याथार्थ्यावबोधेन सता श्रुतज्ञानभक्ति-सद्गुरुवर्यसेवा-धर्मस्नेहिकल्याणमित्रातिगपूज्यवर्याबाल्यसहोषितानां गणिवर्यानामान्तरप्रेरणासफलीभवनाऽऽदिविपुललाभानपेक्ष्य शक्ति-मतिसामर्थ्याननुरुपमतिमहाभगीरथप्रयत्नसाध्यमपि एतत् सम्पादनपुण्यकार्य देवगुरुकृपाकटीक्षकणिकाया अप्यचिन्त्य सामर्थ्यस्यानुभूतत्वात्तदीयोपष्टम्भविश्वासबलेनैतत्पङ्क्तिलेखकेन ।
पश्चदशाधिकद्विसहस्रमितवैक्रमाब्दीये वर्षे इयं घटना । ततश्चान्यायकार्यव्यापृतिमत्वेऽपि यथावसरं यथानुगुण्य सम्पादनाय प्रवृत्तियायोगकरणेन मुद्रणयोग्यस्वरूपेणैतं सज्जं विधाय विंशत्यधिकद्विसहस्रतमे वर्षे एतन्मुद्रणं संस्थया प्रारब्धम् । मुद्रणालयविषमतादिहेतुना वर्षाष्टकमितदीर्घसमयेनाऽपि एतत्प्रकाशनस्य सम्पूर्णरूपेणाशक्यप्रतीतेः पञ्चदशप्रस्तावनासमहात्मकप्रथमविभागस्य प्रकाशनं न्याय्यमवसरोचितञ्च संप्रधार्य सङ्कलनाकारकगणिवरानामर्थसहायोपदेशदातृणां गणीन्द्राणाञ्च प्रेरणया संस्थया लघुतमस्वरूपोऽपि प्रथमो हि विभागः प्रकाश्यते ।
यद्यपि "आकृतिर्गुणान् कथयती" त्यामाणकानुसारं समस्ता अपि प्रस्तावना यदि एकस्मिन्नेव प्रन्ये स्युः तर्हि विशालकायत्वं ग्रन्थस्य प्रभावोत्पादकत्वञ्च स्यात् । परं ! मुद्रणालयाऽननुकूल्यादिविषमताहेतोः तादृशैकविशालकायग्रन्थप्रतीक्षायां कतिपयवर्षाणामयापि संभवात्
"अल्पारम्भाः क्षेमकराः" इति न्यायानुसारं महर्धवस्तूनां च परिचयाय "नमूना" (सेंपल इत्यांगलभाषायां) इति शब्दवाच्यवस्त्वंशानां विक्रयमंजूषा(शो केइस)यां स्थापनस्य व्यापारिणां धोरणमनुसृत्य वैत ग्रंथरत्नं प्रथम विभागरूपेणाऽपि प्रकटण्य पूज्यागमतात्पर्यज्ञशिरोमणीनां देवसूरतपागच्छसामाचारीसंरक्षकाणां सूरीश्वराणां अप्रतिमवैदुष्यवारानिधिगतविविधरत्नराशिपरिचयः गुणानुरागिनां विदुषां सौकर्येण स्यादिति प्रशस्ताध्यवसायेनैतत्प्रकाशनमुचितज्ञधिया विधीयमानं सत्प्रमोदावहमिति ।
एतस्मिंश्च प्रथमे विभागेऽधोनिर्दिष्टग्रन्थस्थप्रस्तावनाः पूज्याऽऽगमोद्धारकदेवैलिखिताः समु