________________
८६]
[ जल्पकल्पलता ४४. न उत्तरः-श्रेष्ठः यस्मादिति अनुपमित्यर्थः । ४५. न उत्तमा यस्मादन्येषां मनीषा, एतादृशी मनीषा विद्यते येषां तेषामिति । ४६. वेदाननुसरते या समस्ता चासौ सृष्टिः, तां स्पृशंति येते तेषामनुसरणमिति । ४७. अनेके च ते सन्न्यस्ताः सत्प्रतिपक्षाः, इतरे च ये दोषा, तैराश्रित इति । ४८. पिष्टः-चूर्णीकृतः । ४९ तिला यथा पिष्यन्ते तथा । ५०. पुष्टा=प्रबला प्रतिभा विद्यते यस्य तेनेति । ५१. सावयवत्वम् , संस्थानवत्त्वम् , विकारित्वं, कृतं इतिरूपा ये प्रतिभाया-उत्पादकत्वं येषां ते
विकल्पा एव शिलासूः लघुः पिषणयाषाणः (लोढी) तेनेति । ५२. तम्-कार्यत्वाख्यं हेतुम् । ५३. विततेन=विस्तृतेन, इदं हि विशेषणं "स्तबकेन" इत्यस्य ज्ञेयम् ५४. गुणैः वदितुं योग्यो योऽसौ इति, गुणश्रेष्ठ इत्यर्थः । ५५. तत्र-प्रथमे स्तबके। ५६. अर्थः प्रयोजनं, तस्य क्रिया, इतरदर्शन्यभिमतं वस्तुनो हि गमकलक्षणभूतमिदमर्थक्रियाकारित्वम् । ५७. लक्षणानि वस्तुनः गमकानि, तेषां समीक्षणे विचक्षणाः निपुणाः, तैरीक्षणीयमिति । ५८. यङ्लुबन्तपमिरूम् अतिशयेन खण्डितमित्यर्थः । ५९. तस्मिन् स्तबके इत्यर्थ । ६०. 'गृहीत'पदस्याऽग्रेतनाऽ'क्षर पदेन सह सम्बन्धो विज्ञेयः ।
तेन प्रहेलिकाभेदगत गृहीताक्षर — भेदो 'ऽत्र बोध्यः ६१. निगदितः विशेषेण वर्णितः महात्मभिः महिमा यस्य तेनेति । ६२. ततम् निबद्धम् आतता=विस्तृतीया काव्येषु कोविदता, तस्या अनुयुक्तये इति । ६३. आये स्तबके वर्णितो यः कर्तृरूपो हेतुविशेषः, तस्य विशेषतः कर्तनाय इति । ६४. घुष्टं अमरैः यशः यस्य तेन । ६५. विरुद्धत्वनामकहेत्वाभासदूषितत्वमित्यर्थः । ६६. स्वाभाविकीया उत्पादकता उत्पत्तिशीलता, तया आसकलिता-व्याप्ता मूत्ति: स्वरूपं येषामिति । ६७. अकलितः अज्ञातः धीमद्भिः हेतुः उत्पत्तिकारणं येषामिति ।