________________
PORONOUTORRECOREDEECTIVECORNETICOREATRETRERENTS श्रीपूज्यपादाऽऽगमोक्षद्धारकाचार्यश्रीलिखितप्रस्तावना
विषमपदार्थसूचिका आनन्दलहरी-टिप्पणी
(जल्पकल्पलता-प्रस्तावना) WIRDANDDDDDDDDDDDDDDAR १. पुषणं-पुष् , (पुष् धातोः क्विबन्तरूपम् ।
द्वेषस्य पुष-द्वेषपुष , अपेतः द्वेषपुइ येषां तेषामिति विग्रहः, द्वेषपोषणरूपाऽनर्थप्रवृत्तिरहितानां
मध्यस्थानामित्यर्थः । २. हृदयरूपिणी या गुहा तस्याम् आहितः विहितः धर्मविषयकधैर्य (आपत्तिकालेऽपि मनःस्थिरता)
रूपकेसरिकिशोरस्य पोषः (पोषणं पोष इति घञन्तरूपम् ) यैस्तैरिति व्युत्पत्तिरर्थानुगामिका विज्ञेयाऽत्र । ३. (अ) निखिलानि च तानि खिलानि-विघ्नाः, तेषां याः स्खलनाः, ताभिरस्खलितं बलं यस्यैतादृश
• प्राग्भार(श्रेष्ठ )पुण्यस्य संभारः=समूहः, तेन भ्राजिष्णुः, भूधनः=देहः येषां ते इति
प्रथमोऽशः । (आ) हतः प्रस्खलितः मारस्य कामस्य विकाराणां संचारः यैरिति द्वितीयोऽशः । (इ) विधिवत् =औचित्यविनियोगपूर्वकं विधूतः=विशेषेण ज्ञानगर्भवैराग्यरूपेण धूतः त्यक्तः
समस्तश्चासौ साराणां श्रेष्ठानां (वस्तूनामिति शेषः) निकरः-समूहः यैरिति तृतीयोऽशः । (ई) अनादिकालीना या कर्मणां सन्ततिः परम्परा, तस्याः निहतिः-मूलोच्छेदरूपेण निश्शेषेण
विनाशः, तस्य प्रभुः=समर्थः, एतादृशः प्रभावः लब्धः यैरिति चतुर्थोऽशः । (उ) रमा च रामा चेति रमारामे, ते आदौ येषां एतादृशसङ्गेषु-परिग्रहेषु वि=विशेषेण
आसक्ताः प्रबलमोहोदयजन्यगृद्भिवन्तः, एतादृशाः ये पारगत( बुद्ध )पुरुषोत्तम( विष्णु )पशुपति( महादेव )प्रभृतिभिः लौकिकगणैः स्थूलबुद्धिजनैः अर्घ्यः यः देवसंदोहः, तेन वितर्कयितुमपि न शक्येत यस्य=जिनेशितुरनुपमाऽऽत्मवैभवसामर्थ्यम् एतादृशः इति
पश्चमोऽशः । (ऊ) परमयोगिभिः - केवलज्ञानिभिः वेत्तुं शक्याः-ये अप्रतिमाद्भुताऽऽत्मसमृद्धिमन्त इति
षष्ठोंऽशः । (ऋ) केवलं समस्तं लोकालोकविषयं पदार्थजातं तस्य अवलोकने समस्तपर्यायसहितविशिष्ट
ज्ञाने लम्पटासाहजिकरीत्या प्रवणा केवलवित्=केवलज्ञानं येषां ते इति सप्तमोऽशः ।