________________
६२४
श्रीयोगसारस्य मूलवृत्तानि पञ्चमः प्रस्तावः
निरुन्ध्याच्चित्तदुर्ध्यानं, निरुन्ध्यादयतं वचः । निरुन्ध्यात्कायचापल्यं, तत्त्वतल्लीनमानसः ॥६॥
1
दिनातिवाहिकां कष्टां दृष्ट्वा बन्द्यादिदुःखिनाम् । रुद्धमेकान्तमौनाभ्यां तपंश्चित्तं स्थिरीकुरु ॥७॥
?
,
मुनिना मसृणं शान्तं प्राञ्जलं मधुरं मृदु । वदता तापलेशोऽपि, त्याज्यः स्वस्य परस्य च ॥८॥ कोमलाऽपि सुसाम्याऽपि, वाणी भवति कर्कशा । अप्राञ्जलास्फुटात्यर्थं, विदग्धा चर्विताक्षरा ॥९॥ औचित्यं ये विजानन्ति, सर्वकार्येषु सिद्धिदम् । सर्वप्रियङ्करा ये च ते नरा विरला जने ॥१०॥ औचित्यं परमो बन्धु-रौचित्यं परमं सुखम् । धर्मादिमूलमौचित्य-मौचित्यं जनमान्यता ॥११॥ कर्मबन्धदृढश्लेषं, सर्वस्याप्रीतिकं सदा । धर्मार्थिना न कर्त्तव्यं, वीरेण जटिनां यथा ॥ १२ ॥ बीजभूतं सुधर्मस्य, सदाचारप्रवर्त्तनम् । सदाचारं विना स्वैरि - ण्युपवासनिभो हि सः ॥१३॥ मूर्तो धर्मः सदाचारः, सदाचारोऽक्षयो निधिः । दृढं धैर्यं सदाचारः, सदाचारः परं यशः ॥ १४ ॥ लोभमुन्मूलयन्मूला-दप्रमत्तो मुनिः सदा । क्षायोपशमिके भावे, स्थितोऽनुत्सुकतां भजेत् ॥१५॥
संसारसरणिर्लोभो, लोभः शिवपथाचलः । सर्वदुःखखनिर्लोभो, लोभो व्यसनमन्दिरम् ॥१६॥ शोकादीनां महाकन्दो, लोभः क्रोधानलानिलः । मायावल्लिसुधाकुल्या, मानमत्तेभवारुणी ॥१७॥ ॥ युग्मम् ॥ त्रिलोक्यामपि ये दोषा-स्ते सर्वे लोभसम्भवाः । गुणास्तथैव ये केऽपि ते सर्वे लोभवर्जनात् ॥१८॥
परिशिष्टम् १