________________
६२३
परिशिष्टम् १ श्रीयोगसारस्य मूलवृत्तानि, पञ्चमः प्रस्तावः
लोकोत्तरान्तरङ्गस्य, मोहसैन्यस्य तं विना । सम्मुखं नापरैः स्थातुं, शक्यते नाऽत्र कौतुकम् ॥३६॥ सर्वमज्ञस्य दीनस्य, दुष्करं प्रतिभासते । सत्त्वैकवृत्तिवीरस्य, ज्ञानिनः सुकरं पुनः ॥३७॥ द्विवास्त्रिचतुरा वा ते, यदि सर्वजगत्यपि । प्राप्यन्ते धैर्यगाम्भीयौ-दार्यादिगुणशालिनः ॥३८॥ बाहुल्येन तदाभास-मात्रा अपि कलौ कुतः । बुसप्रायैस्तु लोकोऽयं, पूरितो भवपूरकैः ॥३९॥ मानुष्यं दुर्लभं लब्ध्वा, ये न लोकोत्तरं फलम् । गृह्णन्ति सुखमायत्यां, पशवस्ते नरा अपि ॥४०॥ तत्पुनर्मोक्षदो धर्मः, शीलाङ्गवहनात्मकः । प्रतिस्रोतःप्लवात्साध्यः, सत्त्वसारैकमानसैः ॥४१॥ ततः सत्त्वमवष्टभ्य, त्यक्त्वा कुग्राहिणां ग्रहम् । क्रियतां भोः सुधर्मस्य, करणायोद्यमः सदा ॥४२॥
| पञ्चमः प्रस्तावः कायेन मनसा वाचा, यत्कर्म कुरुते यदा । सावधानस्तदा तत्र, धर्मान्वेषी मुनिर्भवेत् ॥१॥ इष्टानिष्टेषु भावेषु, सदा व्यग्रं मनो मुनिः । सम्यग्निश्चयतत्त्वज्ञः, स्थिरीकुर्वीत सात्त्विकः ॥२॥ अशुभं वा शुभं वाऽपि, स्वस्वकर्मफलोदयम् । भुञ्जानानां हि जीवानां, हर्ता कर्ता न कश्चन ॥३॥ मृतप्रायं यदा चित्तं, मृतप्रायं यदा वपुः । मृतप्रायं यदाक्षाणां, वृन्दं पक्कं तदा सुखम् ॥४॥ आजन्माज्ञानचेष्टाः स्वा, निन्द्यास्ताः प्राकृतैरपि । विचिन्त्य मूढ ! वैदग्ध्य-गर्वं कुर्वन्न लज्जसे ॥५॥