________________
६२०
श्रीयोगसारस्य मूलवृत्तानि, चतुर्थः प्रस्तावः
निःसङ्गो निर्ममः शान्तो, निरीहः संयमे रतः । यदा योगी भवेदन्त- स्तत्त्वमुद्भासते तदा ॥२९॥ सद्वृक्षं प्राप्य निर्वाति, रवितप्तो यथाऽध्वगः । मोक्षाध्वस्थस्तपस्तप्त - स्तथा योगी परं लयम् ॥३०॥ इति साम्यतनुत्राण - त्रातचारित्रविग्रहः । मोहस्य ध्वजिनीं धीरो, विध्वंसयति लीलया ॥३१॥
चतुर्थ: प्रस्ताव:
त्यक्त्वा रजस्तमोभावौ, सत्त्वे चित्तं स्थिरीकुरु । न हि धर्माधिकारोऽस्ति, हीनसत्त्वस्य देहिनः ॥१॥ हीनसत्त्वो यतो जन्तु- र्बाधितो विषयादिभिः । बाढं पतति संसारे, स्वप्रतिज्ञाविलोपनात् ॥२॥ सावद्यं सकलं योगं, प्रत्याख्यायाऽन्यसाक्षिकम् । विस्मृतात्मा पुनः क्लीबः, सेवते धैर्यवर्जितः ॥३॥ तावद् गुरुवचः शास्त्रं तावत्तावच्च भावनाः । कषायविषयैर्यावन्, न मनस्तरलीभवेत् ॥४॥
कषायविषयग्रामे, धावन्तमतिदुर्जयम् । यः स्वमेव जयत्येकं, स वीरतिलकः कुतः ? ॥५॥
धीराणामपि वैधुर्य-करै रौद्रपरीषहैः । स्पृष्टः सन् कोऽपि वीरेन्द्रः, सम्मुखो यदि धावति ॥६॥ उपसर्गे सुधीरत्वं, सुभीरुत्वमसंयमे । लोकातिगं द्वयमिदं, मुनेः स्याद्यदि कस्यचित् ॥७॥ दुःसहा विषयास्तावत्, कषाया अतिदुःसहाः । परीषहोपसर्गाश्चाऽधिकदुःसहदुःसहाः ॥८॥ जगत्त्रयैकमलश्च कामः केन विजीयते । मुनिवीरं विना कञ्चिच्चित्तनिग्रहकारिणम् ॥९॥
परिशिष्टम् १