________________
६२१
परिशिष्टम् १ श्रीयोगसारस्य मूलवृत्तानि, चतुर्थः प्रस्तावः
मुनयोऽपि यतस्तेन, विवशीकृतचेतसः । घोरे भवान्धकूपेऽस्मिन्, पतित्वा यान्त्यधस्तलम् ॥१०॥ तावद्धैर्यं महत्त्वं च, तावद् तावद्विवेकिता । कटाक्षविशिखान्यावन्-न क्षिपन्ति मृगेक्षणाः ॥११॥ गृहं च गृहवार्ता च, राज्यं राज्यश्रियोऽपि च । समर्प्य सकलं स्त्रीणां, चेष्टन्ते दासवज्जनाः ॥१२॥ सा मित्रं सैव मन्त्री च, सा बन्धुः सैव जीवितम् । सा देवः सा गुरुश्चैव, सा तत्त्वं स्वामिनी च सा ॥१३॥ रात्रौ दिवा च सा सा सा, सर्वं सर्वत्र सैव हि । एवं स्त्र्यासक्तचित्तानां, क धर्मकरणे रतिः ॥१४॥ ॥ युग्मम् ॥ स्त्रीसमुद्रेऽत्र गम्भीरे, निमग्नमखिलं जगत् । उन्मज्जति महात्माऽस्माद्-यदि कोऽपि कथञ्चन ॥१५॥ दूरे दूरतरे वाऽस्तु, खड्गधारोपमं व्रतम् । हीनसत्त्वस्य ही चिन्ता, स्वोदरस्यापि पूरणे ॥१६॥ यत्तदर्थं गृहस्थानां, बहुचाटुशतानि सः । बहुधा च करोत्युच्चैः, श्वेव दैन्यं प्रदर्शयन् ॥१७॥ त्वमार्या त्वं च माता मे, त्वं स्वसा त्वं पितृष्वसा । इत्यादिज्ञातिसम्बन्धान्-कुरुते दैन्यमाश्रितः ॥१८॥ अहं त्वदीयपुत्रोऽस्मि, कवलैस्तव वद्धितः । तव भागहरश्चैव, जीवकस्ते तवेहकः ॥१९॥ एवमादीनि दैन्यानि, क्लीबः प्रतिजनं मुहुः । कुरुतेऽनेकशस्तानि, कः प्रकाशयितुं क्षमः ? ॥२०॥ आगमे योगिनां या तु, सैंही वृत्तिः प्रदर्शिता । तस्यास्त्रस्यति नाम्नापि, का कथाऽऽचरणे पुनः ? ॥२१॥ किन्तु सातैकलिप्सुः स, वस्त्राहारादिमूर्च्छया । कुर्वाणो मन्त्रतन्त्रादि, गृहव्याप्तिं च गेहिनाम् ॥२२॥