________________
६१९
परिशिष्टम् १
श्रीयोगसारस्य मूलवृत्तानि, तृतीयः प्रस्तावः साम्यं मानसभावेषु, साम्यं वचनवीचिषु । साम्यं कायिकचेष्टासु, साम्यं सर्वत्र सर्वदा ॥१६॥ स्वपता जाग्रता रात्रौ, दिवा चाखिलकर्मसु । कायेन मनसा वाचा, साम्यं सेव्यं सुयोगिना ॥१७॥ ॥ युग्मम् ॥ यदि त्वं साम्यसन्तुष्टो, विश्वं तुष्टं तदा तव । तल्लोकस्यानुवृत्त्या किं, स्वमेवैकं समं कुरु ॥१८॥ श्रुतश्रामण्ययोगानां, प्रपञ्चः साम्यहेतवे । तथापि तत्त्वतस्तस्मा-ज्जनोऽयं प्लवते बहिः ॥१९॥ स्वाधीनं स्वं परित्यज्य, विषमं दोषमन्दिरम् । अस्वाधीनं परं मूढ !, समीकर्तुं किमाग्रहः ? ॥२०॥ वृक्षस्य छिद्यमानस्य, भूष्यमाणस्य वाजिनः । यथा न रोषस्तोषश्च, भवेद्योगी समस्तथा ॥२१॥ सूर्यो जनस्य तापाय, सोमः शीताय खिद्यते । तद्योगी सूर्यसोमाभः, सहजानन्दतां भजेत् ॥२२॥ यथा गुडादिदानेन यत्किञ्चित्त्याज्यते शिशः । चलं चित्तं शुभध्याने-नाऽशुभं त्याज्यते तथा ॥२३॥ सर्वभूताविनाभूतं, स्वं पश्यन्सर्वदा मुनिः । मैत्र्याद्यमृतसम्मग्नः, व क्लेशांशमपि स्पृशेत् ? ॥२४॥ नाज्ञानाद्वालको वेत्ति, शत्रुमित्रादिकं यथा । तथात्र चेष्टते ज्ञानी, तदिहैव परं सुखम् ॥२५॥ तोषणीयो जगन्नाथ-स्तोषणीयश्च सद्गुरुः । तोषणीयस्तथा स्वात्मा, किमन्यैर्बत तोषितैः ॥२६॥ कषायविषयाक्रान्तो, बहिर्बुद्धिरयं जनः । किं तेन तुष्टरुष्टेन, तोषरोषौ च तत्र किम् ? ॥२७॥ असदाचारिणः प्रायो, लोकाः कालानुभावतः । द्वेषस्तेषु न कर्त्तव्यः, संविभाव्य भवस्थितिम् ॥२८॥