SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ६१८ श्रीयोगसारस्य मूलवृत्तानि, तृतीयः प्रस्तावः परिशिष्टम् १ सर्वसङ्गपरित्यागः, सुखमित्यपि वेत्ति सः । सम्मुखोऽपि भवेत्कि न, तस्येत्यपि न बुध्यते ॥३॥ सूक्ष्माः सूक्ष्मतरा भावा, भेद्यन्ते सूक्ष्मबुद्धिभिः । एतद्वयं तु दुर्भेदं, तेषामपि हि का गतिः ॥४॥ अपराधाक्षमा क्रोधो, मानो जात्याद्यहङ्कृतिः । लोभः पदार्थतृष्णा च, माया कपटचेष्टितम् ॥५॥ शब्दरूपरसस्पर्श-गन्धाश्च मृगतृष्णिकाः । दुःखयन्ति जनं सर्वं, सुखाभासविमोहितम् ॥६॥ ॥ युग्मम् ॥ नोपेन्द्रस्य न चेन्द्रस्य, तत्सुखं नैव चक्रिणः । साम्यामृतविनिर्मग्नो, योगी प्राप्नोति यत्सुखम् ॥७॥ रागोऽभीष्टेषु सर्वेषु, द्वेषोऽनिष्टेषु वस्तुषु । क्रोधः कृतापराधेषु, मानः परपराभवे ॥८॥ लोभः पदार्थसम्प्राप्तौ, माया च परवञ्चने । गते मृते तथा शोको, हर्षश्चागतजातयोः ॥९॥ अतिर्विषयग्रामे, चाऽशुभे च शुभे रतिः । चौरादिभ्यो भयं चैव, कुत्सा कुत्सितवस्तुषु ॥१०॥ वेदोदयश्च सम्भोगे, विलीयेत मुनेर्यदा । अन्तःशुद्धिकरं साम्या-मृतमुज्जृम्भते तदा ॥११॥ ॥ चतुभिः कलापकम् ॥ एतेषु येन केनाऽपि, कृष्णसर्पण देहिनः । दष्टस्य नश्यति क्षिप्रं, विवेकवरजीवितम् ॥१२॥ दुर्विजेया दुरुच्छेद्या, एतेऽभ्यन्तरवैरिणः । उत्तिष्ठमाना एवातो, रक्षणीयाः प्रयत्नतः ॥१३॥ यद्यात्मा निर्जितोऽमीभि-स्ततो दुःखोगमो महान् । यद्यात्मना जिता एते, महान् सौख्यागमस्तदा ॥१४॥ सहजानन्दता सेयं, सैवात्मारामता मता । उन्मनीकरणं तद्यन्, मुनेः शमरसे लयः ॥१५॥
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy