SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ६१७ परिशिष्टम् १ श्रीयोगसारस्य मूलवृत्तानि, तृतीयः प्रस्तावः चञ्चलस्यास्य चित्तस्य, सदैवोत्पथचारिणः । उपयोगपरैः स्थेयं, योगिभिर्योगकाङ्क्षिभिः ॥२९॥ सुकरं मलधारित्वं, सुकरं दुस्तपं तपः । सुकरोऽक्षनिरोधश्च, दुष्करं चित्तशोधनम् ॥३०॥ पापबुद्ध्या भवेत्पापं, को मुग्धोऽपि न वेत्त्यदः । धर्मबुद्ध्या तु यत्पापं, तच्चिन्त्यं निपुणं बुधैः ॥३१॥ अणुमात्रा अपि गुणा, दृश्यन्ते स्वधियाऽऽत्मनि । दोषास्तु पर्वतस्थूला, अपि नैव कथञ्चन ॥३२॥ त एव वैपरीत्येन, विज्ञातव्याः परं वचः । दिग्मोह इव कोऽप्येष, महामोहो महाबलः ॥३३॥ धर्मस्य बहुधाऽध्वानो, लोके विभ्रमहेतवः । तेषु बाह्यफटाटोपा-त्तत्त्वविभ्रान्तदृष्टयः ॥३४॥ स्वस्वदर्शनरागेण, विवदन्तो मिथो जनाः । सर्वथैवात्मनो धर्मं, मन्यन्ते न परस्य तु ॥३५॥ ॥ युग्मम् ॥ यत्र साम्यं स तत्रैव, किमात्मपरचिन्तया । जानीत तद्विना हंहो !, नात्मनो न परस्य च ॥३६॥ क्षान्त्यादिर्दशधा धर्मः, सर्वधर्मशिरोमणिः । सोऽपि साम्यवतामेव, मैत्र्यादिकृतकर्मणाम् ॥३७॥ साम्यं समस्तधर्माणां, सारं ज्ञात्वा ततो बुधाः । बाह्यं दृष्टिग्रहं मुक्त्वा , चित्तं कुरुत निर्मलम् ॥३८॥ | तृतीयः प्रस्तावः सहजानन्दसाम्यस्य, विमुखा मूढबुद्धयः । इच्छन्ति दुःखदं दुःखो-त्पाद्यं वैषयिकं सुखम् ॥१॥ कषाया विषया दुःख-मिति वेत्ति जनः स्फुटम् । तथापि तन्मुखः कस्माद्-धावतीति न बुध्यते ॥२॥
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy