________________
६१६ श्रीयोगसारस्य मूलवृत्तानि, द्वितीयः प्रस्तावः परिशिष्टम् १
शत्रौ मित्रे सुखे दुःखे, हृषीकार्थे शुभाशुभे । सर्वत्रापि यदेकत्वं, तत्त्वं तद्भेद्यतां (वेद्यतां) परम् ॥१६॥ ॥ युग्मम् ॥ अष्टाङ्गस्यापि योगस्य, सारभूतमिदं खलु । यतो यमादिव्यासोऽस्मिन्, सर्वोऽप्यस्यैव हेतवे ॥१७॥ क्रियते दधिसाराय, दधिमन्थो यथा किल । तथैव साम्यसाराय, योगाभ्यासो यमादिकः ॥१८॥ अद्य कल्येऽपि कैवल्यं, साम्येनाऽनेन नाऽन्यथा । प्रमादः क्षणमप्यत्र, ततः कर्तुं न साम्प्रतम् ॥१९॥ किं बुद्धेन ? किमीशेन ?, किं धात्रा ? किमु विष्णुना ? । कि जिनेन्द्रेण ? रागाद्यै-यदि स्वं कलुषं मनः ॥२०॥ किं नाग्न्येन ? सितै रक्तैः, किं पटैः ? किं जटाभरैः ? । किं मुण्डमुण्डनेनापि ?, साम्यं सर्वत्र नो यदि ॥२१॥ किं व्रतैः ? किं व्रताचारैः ?, किं तपोभिर्जपैश्च किम् ? किं ध्यानैः ? किं तथा ध्येयै-र्न चित्तं यदि भास्वरम् ॥२२॥ किं क्लिष्टेन्द्रियरोधेन, किं सदा पठनादिभिः । किं सर्वस्वप्रदानेन, तत्त्वं नोन्मीलितं यदि ॥२३॥ नाञ्चलो मुखवस्त्रं न, न राका न चतुर्दशी । न श्राद्धादिप्रतिष्ठा वा, तत्त्वं किन्त्वमलं मनः ॥२४॥ दृष्ट्वा श्रीगौतम बुद्ध-स्त्रिपञ्चशततापसैः । भरतप्रमुखैर्वापि, कः कृतो बाह्यकुग्रहः ? ॥२५॥ दृढप्रहारिवीरेण, चिलातीपुत्रयोगिना । इलापुत्रादिभिश्चैव, सेवितो योग उत्तमः ॥२६॥ येन केन प्रकारेण, देवताराधनादिना । चित्तं चन्द्रोज्ज्वलं कार्य, किमन्यैर्ग्रहकुग्रहैः ? ॥२७॥ तथा चिन्त्यं तथा वाच्यं, चेष्टितव्यं तथा तथा । मलीमसं मनोऽत्यर्थं, यथा निर्मलतां व्रजेत् ॥२८॥