________________
६१५
परिशिष्टम् १ श्रीयोगसारस्य मूलवृत्तानि, द्वितीयः प्रस्तावः
पतितव्यं जनैः सर्वैः, प्रायः कालानुभावतः । पापो मत्सरहेतुस्तन्-निर्मितोऽसौ सतामपि ॥३॥ मोहोपहतचित्तास्ते, मैत्र्यादिभिरसंस्कृताः । स्वयं नष्टा जनं मुग्धं, नाशयन्ति च धिग् हहा ॥४॥ परे हितमतिमैत्री, मुदिता गुणमोदनम् । उपेक्षा दोषमाध्यस्थ्यं, करुणा दुःखमोक्षधीः ॥५॥ मैत्री निखिलसत्त्वेषु, प्रमोदो गुणशालिषु । माध्यस्थ्यमविनेयेषु, करुणा दुःखिदेहिषु ॥६॥ धर्मकल्पद्रुमस्यैता, मूलं मैत्र्यादिभावनाः । यैर्न ज्ञाता न चाभ्यस्ताः, स तेषामतिदुर्लभः ॥७॥ अहो विचित्रं मोहान्ध्यं, तदन्धैरिह यज्जनैः । दोषा असन्तोऽपीक्ष्यन्ते, परे सन्तोऽपि नाऽऽत्मनि ॥८॥ मदीयं दर्शनं मुख्यं, पाखण्डान्यपराणि तु । मदीय आगमः सारः, परकीयास्त्वसारकाः ॥९॥ तात्त्विका वयमेवान्ये, भ्रान्ताः सर्वेऽप्यतात्त्विकाः । इति मत्सरिणो दूरो-त्सारितास्तत्त्वसारतः ॥१०॥ ॥ युग्मम्॥ यथाऽऽहतानि भाण्डानि, विनश्यन्ति परस्परम् । तथा मत्सरिणोऽन्योन्यं, ही दोषग्रहणाद्धताः ॥११॥ परं पतन्तं पश्यन्ति, न तु स्वं मोहमोहिताः । कुर्वन्तः परदोषाणां, ग्रहणं भवकारणम् ॥१२॥ यथा परस्य पश्यन्ति, दोषान्यद्यात्मनस्तथा । सैवाजरामरत्वाय, रससिद्धिस्तदा नृणाम् ॥१३॥ रागद्वेषविनाभूतं, साम्यं तत्त्वं यदुच्यते । स्वशंसिनां व तत्तेषां, परदूषणदायिनाम् ॥१४॥ मानेऽपमाने निन्दायां, स्तुतौ वा लेष्टुकाञ्चने । जीविते मरणे लाभा-लाभे रङ्के महद्धिके ॥१५॥