________________
२४०
साम्यसुखप्राप्त्युपायः
योगसार: ३/८,९,१०,११
(विषयग्रामे) रतिः, चौरादिभ्यश्च भयं कुत्सितवस्तुषु कुत्सैव, सम्भोगे च वेदोदयः, विलीयेत तदाऽन्तःशुद्धिकरं साम्यामृतमुज्जृम्भते ||८|| ||९|| ॥१०॥ ॥११॥
पद्मीया वृत्ति: - यदा यस्मिन्काले, मुनेः – जगत्स्वरूपचिन्तकस्य, यदुक्तं ज्ञानसारे मौनाष्टके – 'मन्यते यो जगत्तत्त्वं, स मुनिः प्रकीर्तितः ॥१ ॥, ' सर्वेषु अखिलेषु, अभीष्टेषु प्रियेषु वस्तुष्वित्यत्राध्याहार्यम्, रागः - अभिष्वङ्गः, सर्वेष्वित्यत्रापि सम्बन्धनीयम्, अनिष्टेषु - अप्रियेषु वस्तुषु - पदार्थेषु, द्वेषः तिरस्कारः, कृतापराधेषु - कृता:-अनुष्ठिताः अपराधा:-आगांसि यैस्ते कृतापराधा:, तेषु, क्रोधः - अक्षमा, परपराभवे परस्य - स्वातिरिक्तस्य पराभवः पराजय इति परपराभवः, मान: स्वोत्कर्ष:, पदार्थसम्प्राप्तौ पदार्थस्य-वस्तुनः सम्प्राप्ति :- लाभ इति पदार्थसम्प्राप्तिः, तस्यां, लोभ: - तृष्णा, परवञ्चने - परेषां - स्वातिरिक्तानां वञ्चनम्प्रतारणमिति परवञ्चनम्, तस्मिन् चशब्दः समुच्चये, माया कपटम्, गते - देशान्तरं प्राप्ते, तथाशब्दः समुच्चये, मृते - परभवं प्राप्ते, शोकः - दीनता, आगतजातयोः आगत:-देशान्तरादत्र प्राप्तः, जातः - भवान्तरादत्र प्राप्तः आगतश्च जातश्चेति आगतजातौ, तयोः, चशब्दः समुच्चये, हर्षः - प्रमोदः, अशुभे - अशोभने, चशब्दः समुच्चये, विषयग्रामे - विषयाणां - इन्द्रियार्थानां ग्राम: - समूह इति विषयग्रामः, तस्मिन्, अरतिः - अप्रीतिः, शुभे - शोभने, चशब्दः समुच्चये, विषयग्रामे इत्यत्राप्यनुवर्त्तनीयम्, रतिः
"
प्रीतिः, चौरादिभ्यः - चौर::- तस्कर आदौ येषां दायाद - वह्नि - शत्रु - राजादीनामिति चौरादयः, तेभ्यः, चशब्दः समुच्चये, भयम् - भीतिः, कुत्सितवस्तुषु - कुत्सितानिजुगुप्सितानि च तानि वस्तूनि - पदार्थाश्चेति कुत्सितवस्तूनि तेषु, कुत्सा जुगुप्सा, एवशब्दः समुच्चयार्थः, सम्भोगे - मैथुने, चशब्दः समुच्चये, वेदोदयः - वेदानाम्स्त्रीपुरुषनपुंसक वेदमोहनीयकर्मरूपाणामुदयः - विपाक इति वेदोदय:, विलीयेत नश्येत्, तदा कषायनोकषायक्षयकाले, अन्तः शुद्धिकरम् अन्त:- चित्तस्य शुद्धिः
-
-
-
-
-
પ્રીતિ, ચોર વગેરે થકી ભય, ખરાબ વસ્તુઓમાં દુર્ગંછા, સંભોગમાં વેદનો ઉદય नाश पामे त्यारे अंतःऽरएशने शुद्ध डरनार समतामृत प्रगटे छे. (८, ८, १०, ११) પદ્મીયાવૃત્તિનો ભાવાનુવાદ - મુનિ એટલે જગતના સ્વરૂપને વિચારનાર.