________________
योगसारः २/३४,३५
जना आत्मनो धर्ममेव मन्यन्ते, न परस्य
मूलम् - धर्मस्य बहुधाऽध्वानो, लोके विभ्रमहेतवः । तेषु बाह्यंफटाटोपा तत्त्वविभ्रान्तदृष्टयः ॥३४॥ स्वस्वदर्शनरागेण, विवदन्तो मिथो जनाः । सर्वथैवात्मनो धर्मं, मन्यन्ते न परस्य तु ॥ ३५ ॥ ॥ युग्मम् ॥
अन्वयः - लोके धर्मस्य बहुधाऽध्वानो विभ्रमहेतवः । बाह्यफटाटोपात्तेषु तत्त्वविभ्रान्तदृष्टयो स्वस्वदर्शनरागेण मिथो विवदन्तो जनाः सर्वथाऽऽत्मन एव धर्मं मन्यन्ते न तु परस्य (धर्मं मन्यन्ते ) ||३४||||३५||
जगति, धर्मस्य
पद्मया वृत्तिः लोके पूर्वोक्तस्वरूपस्य, बहुधा अनेकविधाः, अध्वानः - मार्गाः, विभ्रमहेतवः - विभ्रमस्य - विशिष्टभ्रमस्य सत्यासत्यज्ञानाऽऽवारकस्य हेतवः-कारणानीति विभ्रमहेतव: । बाह्यफटाटोपात् - बाह्यः - बहिर्दृश्यमानश्चासौ फटाटोप:-आडम्बरश्चेति बाह्यफटाटोप:, तस्मात् तेषु - धर्मस्य विविधाध्वसु, तत्त्वविभ्रान्तदृष्टयः तत्त्वम् - सत्यमिति विभ्रान्ता - भ्रमयुक्ता दृष्टि:- ज्ञानं येषां ते तत्त्वविभ्रान्तदृष्टयः, स्वस्वदर्शनरागेण स्वस्य स्वस्य-निजं निजं दर्शनम् - धर्म इति स्वस्वदर्शनम्, द्विरुक्तिर्वीप्सायाम्, तस्य रागः - प्रेम इति स्वस्वदर्शनरागः, तेन, मिथः परस्परम्, विवदन्तः विवादं कुर्वन्तः जनाः लोकाः, सर्वथा सर्वप्रकारैः, आत्मनः - निजम्, एवशब्दः परकीयधर्मं व्यवच्छिनत्ति, धर्मम् - दर्शनम्, मन्यन्ते सत्यत्वेन निश्चिन्वन्ति, नशब्दो - निषेधे, तुशब्द एवकारार्थः परस्य - स्वातिरिक्तस्य, धर्मं मन्यन्ते इत्यत्राप्यनुवर्त्तनीयम् ।
जगति धर्मस्यानेके प्रकाराः सन्ति । जिनोक्तधर्म एव तात्त्विको धर्मः, यतस्तेनैव
-
१.
च - A, FI
1
-
-
"
-
२११
-
શબ્દાર્થ - લોકમાં ધર્મના ઘણા રસ્તાઓ વિભ્રમનું કારણ છે. બાહ્ય આડંબરથી તેમનામાં તત્ત્વના ભ્રમવાળી દષ્ટિવાળા, પોતપોતાના દર્શનના રાગથી પરસ્પર ઝઘડતાં લોકો બધી રીતે પોતાનો જ ધર્મ માને છે, બીજાનો ધર્મ માનતાં નથી. (३४.३५)
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - જગતમાં ધર્મના અનેક પ્રકારો છે. જિનેશ્વર
फटाटोपास्तत्त्व
B, C, E, F, L, ... स्फुटाटोपास्तत्त्व G, JI २. विवदन्ते H, I, MI ३.
-
...