SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ योगसारः १/२४,२५,२६ जिनाज्ञापालनापालनाभ्यां लाभहानी ८१ साक्षाद्विहरमाणेन, श्रीवीरेण तदा किल ॥२४॥ त एव रक्षिता दुःख - भैरवाद्भवसागरात् । इयं यैः स्वीकृता भक्ति-निर्भरैरभयादिभिः ॥२५॥ यैस्तु पापभराक्रान्तः, कालसौकरिकादिभिः । न स्वीकृता भवाम्भोधौ, ते भ्रमिष्यन्ति दुःखिताः ॥२६॥ ॥ त्रिभिर्विशेषकम् ॥ अन्वयः - तदा विश्वस्य वत्सलेनाऽपि त्रैलोक्यप्रभुणाऽपि च साक्षाद् विहरमाणेन श्रीवीरेण किल भक्तिनिभरैरभयादिभिरियं स्वीकृता त एव दुःखभैरवाद्भवसागरादक्षिताः, पापभराक्रान्तैः कालसौकरिकादिभिः यैस्तु (इयं) न स्वीकृता ते भवाम्भोधौ दुःखिताः (सन्तो) भ्रमिष्यन्ति ॥२४॥ ॥२५॥ ॥२६॥ पद्मीया वृत्तिः - तदा - तस्मिन्काले यदा श्रीवीरविभुः पृथ्वीमलञ्चकार, विश्वस्य - जीवजगतः, वत्सलेन - कृपालुना, अपिशब्दो यैः परमात्माज्ञा न स्वीकृता तेषु परमात्मनो वात्सल्याभावं व्यवच्छिनत्ति, त्रैलोक्यप्रभुणा - त्रयाणां-लोकानामूर्ध्वाधस्तिर्यग्रूपाणां समाहार इति त्रिलोकी, तस्या भाव इति त्रैलोक्यम्, तस्य प्रभुः - स्वामीति त्रैलोक्यप्रभुः, तेन, अपिशब्दः प्रभोः शक्तिरहितत्वं व्यवच्छिनत्ति, चशब्दः समुच्चये, साक्षाद् - प्रत्यक्षम्, विहरमाणेन - विचरता, श्रीवीरेण - श्रिया-अतिशयादिरूपया युक्तश्चासौ वीरः चतुर्विंशतितमस्तीर्थङ्कर इति श्रीवीरः, तेन, किलशब्दः सत्यप्रवादे, શબ્દાર્થ - ત્યારે વિશ્વ ઉપર વાત્સલ્યવાળા એવા પણ અને ત્રણ લોકના સ્વામી એવા પણ સાક્ષાત્ વિચરતા શ્રીવીરપ્રભુએ ભક્તિવાળા અભયકુમાર વગેરે જેમણે પરમાત્માની આ આજ્ઞા સ્વીકારી તેમનું જ દુઃખથી ભયંકર એવા સંસારસાગરમાંથી રક્ષણ કર્યું, પાપના ભારથી દબાયેલા કાલસૌકરિક કસાય વગેરે જેમણે પરમાત્માની सा माशा न स्वीजरी तेसो भवसमुद्रमा हु:ची थईने ममशे. (२४,२५,२६) પવીયાવૃત્તિનો ભાવાનુવાદ - શ્રીવીરપ્રભુ વિશ્વ ઉપર વાત્સલ્યવાળા હતા. તેઓ ત્રણે લોકના સ્વામી હતા. તેઓ અતિશયોરૂપી લક્ષ્મીથી શોભતા હતા.
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy