________________
१५६
महावीरजिनस्तोत्रम् यादारभ्य प्रथमप्रहरे त्यजस्त्यागो-दानमिति यावत्, तस्माद् हेतु भूतात् आयं शुभं-शुभप्रवृत्तिजन्यं यशो यस्य स तं । सुरराजशिरस उपरि-इन्द्रशीर्षाग्रभागे चूर्णोपम-वासवच्छोभमानं क्रमतामरसात्-पादकमलात् प्रसरत्-पृथक् भवत् पादरजो यस्य स तं । ॥२२॥२३॥२४॥२५॥ चतुर्भिः कलापकम् । अमरुस्सिअछत्ततिछायकला-कलिताऽमरचामरसज्जमला । 'पभुआ पविभाइ जिणस्सयला, पुहवीअलि मालिमलाविमला।
व्याख्याः -अमरु०। अमरैः-देवरुत्सृतानि-मस्तकोपरि धृतानि छत्राणि तेषां त्रिकसद्भावेन यास्तिस्रः छायास्तासां या कलाशोभा तया कलिता-व्याप्ता । तथाऽमरचामराणां संति-विद्यमानानि यमलानि-युगलानि यस्यां सा। मा-लक्ष्मीः सैव आलिःसखी तां मलति-धारयतीति मालिमला-लक्ष्मीसौहृद्यविधायिनीत्यर्थः। एवंविधा जिनस्य-वीरस्य विमला-प्रभुता-ऐश्वयं पृथिवीतले विभातीत्यन्वयः।।२६॥ परिसा हरिसाउलिआमलयाऽऽ
वलिआमिलिआविरलासरला । कमलाविमलालयमालमला,
तिमलापसवस्स विभायचला ॥२७॥ व्याख्या-हर्षाकुलिता-मुदन्विता अमलतया-बाह्याभ्यन्तरमलरहिततया आवलिकया-श्रेण्या, न पुनरसम्बद्धतया एकैकपुरुपैर्मिलिता-पिण्डीभूता, सर्वदिशः समन्तात् धर्मशुश्रषया पुरु