________________
महावीरजिनस्तोत्रम्
१५१
अम्बुरम, अम्बुजं-कमलं तद्वत् 'पुरिसवरपुंडरीआणमित्याद्यपमावचनैर्लीलां-शोभा धरति यः स तं । धरणीधवा-राजानस्तैः सेवितं-पर्युपासितं पादयुगं यस्य (तं) जगतां वल्लभा-इष्टा या मुद्प्रमोदस्तस्या लभो-लाभस्तद्विद्यते यस्य हेतुत्वेन तादृशं लपनंमुखं जल्पनं वा यस्य स तं। पवन इव-वायुरिव पवनस्तं, जनपापरजसि-लोकपापरेणाविति । रत्नमिव रत्नं, केषु ? भुवनाङ्गधरेषु-जगद्वर्तिप्राणिषु 'पुरिसुत्तमाण-मिति वचनात् । अरोषःक्षमा तम्य 'वनं-उत्पत्तिस्थानं, काननं वृक्षादीनामुत्पत्तिस्थानं तद्वदयमपि क्षमायाः। धणिअं-अत्यर्थ, धवलीकृता-उज्वलीकृता विश्वाः-सम्पूर्णाः दिशः-पूर्वादिकाष्ठाः येन स तं। केन ? स्वयशोऽमररस्यरसेन-स्वकीययशोरूपेण अमररस्यरसेन-सुरभोज्यरसेन-अमृतेनेत्यर्थः। न विद्यते मिषं-छलं यस्य स, नहि स्वयं छलदूषणयुक्तं वचनं व्रते, न वा परं छलेन निगृह्णातीति । सुवृष-शोभनधर्मयुक्तं। जनसंशयकाशानलं-जनानां धर्मबुभुसूनां यः संशयः-पृथिव्यादि वस्तु नित्यमनित्यं वेत्यादिरूपेणोभयकोट्यवगाहि भ्रमज्ञानं, तद्रूपः काशस्तृणविशेषस्तत्राऽनलइवाग्निरिव यः स तं। यद्वा सुविषं-अतिविषं तद्रूपं यदञ्जनंनेत्राञ्जनीकृतं तत्कल्पो यः संशयः, विषाञ्जनाञ्चितलोचनो हि न किञ्चित्पश्यति, तद्वत्संशयापन्नोऽपि न वस्तुतत्त्वं वेत्तीति तादृशेऽनल इवेति । एवंविधं त्वां श्रीवीरनामानं जिनं शरणं समुपैमिअहं शरणं प्रपद्ये इत्यन्वयार्थः ॥१२॥ ॥१३॥ ॥१४॥ १।। ॥१६॥
पञ्चभिः कुलकम् ।