________________
१४६
महावीरजिनस्तोत्रम् सा। विमलानि यान्यक्षराणि-वर्णाः तेषां न विद्यते क्षरः-क्षणं अन्यतीथिकाऽऽगमस्येव पाठतोऽर्थतो वा विनाशो यस्यां सा, केनाप्यन्यथाकर्तुं न शक्येत्यर्थः। मकारोऽलाक्षणिकः। अस्खलिताकुतोऽपि स्खलनारहिता। खलानां-दुर्जनानां या मालाः-श्रेणयस्तासां गलेषु-निगरणेषु अगला-निश्चला या गुल्मलता-गुच्छलतेव प्रति वदन्तं स्थगनहेतुः । यद्वा गलेषु आ-समन्तात् गुल्मलता गण्डशालादिरोमविशेषकल्पेति दुर्मखदुर्वननिर्गमरोधिकेत्यर्थः । शं-सुखं तस्य इलेव-पृथ्वीव शमिना-साधूनां लालने-सम्यग्परिपालने बालकला-तीर्थकृन्मुखादुत्पत्तेरारभ्याऽभ्यस्तकला यस्या, उत्पत्तित आरभ्य साधुपालनकलावती। यदागमः-"अहो जिणेहिं असावज्जेत्यादि । मुनीनां आननं-मुखम्, मकारः प्राग्वत् । तस्य मण्डने-भूषणे अमानाः-सङ्ख्यारहिता गमाः-सदृशपाठा यस्यां सा ॥८॥६॥१०॥११॥ चतुर्भिः कलापकम् । भुवि भावुकलावुकलंकदलं, दलितालिअनीलकलाकलिलं । सयलं सरइंदुलसंदुमुहं, दुहदुद्दहई नइवेगजलं ॥१२॥ जलहि व गहीरमहीरचयं, कणगाचलनिच्चलचित्तचिअं। . वरकेसरिदुद्धरिसं हरिसं, हरिसंचिअसच्चिअसच्चरणं ॥१३॥ रणरञ्जिअनिज्जरमज्जवअं, जुइनिज्जिअदुज्जयवज्जवयं । मुणिमाणसमंबुरुहालिमलं, धवलंबुरमंबुअलीलधरं ॥१४॥ धरणीधवसेविअपायजुगं, जगवल्लहमुल्लहवल्लवणं । पवणंजणपावरए रयणं, भुवणंगधरेसमरोसवणं ॥१५॥