________________
महोपाध्याय-श्रीमद्धर्मसागरगणिप्रवरप्रणीत सिरिमहावीर-जिणथोत्त।
(सावचूरिकम् ) पणमित्तु पवित्तजिणकमणं, पणुवामि वमाविअपावसमं । सुगवव्वयणाणुमयं न उणं, परमत्थविऊकविवन्निउणं ॥१॥
व्याख्या-पवित्रजिनक्रमणं वीरपादं प्रणम्य अहं प्रणुवामि। किंलक्षणं जिनपादं ?, वामितो-वान्ति नीतोऽन्य(न्तं ) नीत इत्यर्थः । पापश्रमः-पापजन्यखेदो येन स तं । कथं ? वचनानुमतं-वचोमात्राभिमतं यथा स्यात्तथेति, न पुनर्यथाकथश्चित् यावत्ज्ञानगोचरीभूतमपि । किंवत् ? शुकवत् । यथा कथञ्चित् केनचित् प्रेरितोऽपि शुको जातिगुणानुरूपं यथाशिक्षितं पात्रं वा इदममुकशब्देन वाच्यमित्यादिवाच्यवाचकभावपरिज्ञानशून्योऽव्यक्तशब्दमात्रमेव ब्रूते, तथाऽहमपि जिनरागेण प्रेरितो ऽप्यव्यक्तशब्देनैव स्तवीमि, न पुनः परमार्थवित् (कविवत् ) श्रीसिद्धसेनदिवाकरादिकविवत्, अर्थतः शब्दतोऽपि निपुणंदक्षं यथावत्परिज्ञानपूर्वकं सव्यक्तमपि ॥ १॥ जिणवीरपयंबुअजामलयं, लयवल्लिजलं जलहंकयलं । जलरूद्दलकोमलमुम्मलहं, नमहंबरदीवपयावलहं ॥२॥