________________
उत्कृष्टोत्सूत्रिनिदर्शनम्
लिंगेण य साहम्मिय, नो पवयणनिह्नवा सव्वे" ॥१॥ पार्श्वस्थोपलक्षणादवसन्नादयोऽपि ग्राह्याः ।
इति श्री विजय दानसूरीश्वर शिष्योपाध्यायश्रीधर्मसागर विर'चितायां गुरुतत्त्वप्रदीपदीपिकापरनाम्न्यां स्वोपज्ञषोडशश्लोक्यां मध्यमोत्सूत्रिनिरूपण विवरणम् ।
अथोत्कृष्टोत्सूत्रिणो लक्षणमाह
१३७
स्थिरस्तत्पक्षपाती य - स्तस्योत्सूत्रमिहाऽन्तिमम् । द्रव्यात्तदतिरिक्तस्य, जैनमार्गस्थितस्य च ॥१५॥
9
व्याख्या - स्थिरो यस्तत्पक्षपाती तस्य द्रव्यात्तदतिरिक्तस्य'जैनमार्गस्थितस्य चेहाऽन्तिममुत्सूत्रं भवेदित्यन्वयः । स्थिरस्तीर्थाsभीरुः, तत्पक्षपाती - निह्नवादिपक्षोन्नतिकृवचनवक्ता, इहाऽस्यांषोडशश्लोक्यां जगति वा, अन्तिममुत्कृष्टमुत्सूत्रं - व्यवहारनयापेक्षया जैनप्रवचनस्य विरुद्धभाषणं, 'द्रव्यात्तदतिरिक्तस्य'-द्रव्यतो निह्नवपृथक भूतस्य भावतो निह्नवश्रद्धानस्येत्यर्थः । च पुनजैनमार्गस्थितस्य - व्यवहारतः साध्वाद्यन्यतरनाममात्रधारणात् तीर्थावलम्बिन इत्यक्षरार्थः । भावार्थस्त्वयं स्थिरतया निह्नवपक्षपातिनोऽन्तिममुत्सूत्रमित्युक्ते निह्नवेऽतिप्रसक्तिः, तस्य तादृक्स्वभावत्वात् । स च नोत्कृष्टः, किन्तु मध्यमः । ततस्तन्निवृत्तये निह्नवव्यतिरिक्तस्येतिविशेषणं । भावतः सम्यक्त्वमिध्यात्वाऽन्यतरश्रद्धानवत्तया निह्नवव्यतिरिक्ते उत्कृष्टप्रत्यासन्नेऽतिप्रसङ्गभङ्गाय द्रव्यादिति । एवं द्रव्यत एव निह्नवव्यति - रिक्तो, न तु भावतो । भावतस्तु निह्नवमार्गश्रद्धान इत्यर्थः । एव