SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ षडभिहितेति ॥ विउव्वजोगे ण उप्पाया ॥२५॥ भागा गमागमाओ, अट्ठ समुग्घायओ हवइ तेर । "विउव्वे"त्यादि, वैक्रियकाययोगे जीवानामुत्पादकृतस्पर्शना न भवतीत्यर्थः । गमनागमनकृता तु भवनपत्यादिदेवानामिवाष्टौ 'भागाः' रज्जवः सघना-स्त्रसनाड्यन्तःप्रविष्टाः । समुद्घाततः पुनस्तादृशास्त्रयोदशांशाः स्पर्शना भवति । कथं त्रयोदश? सप्त भागा ईषत्प्राग्भारापृथिव्यामुत्पित्सुभिर्भवनपत्यादिदेवैः कृतोर्ध्वलोक-सम्बन्धिनी षड् भागास्तु तिर्यक्तयोत्पित्सुसप्तमभूमिनारककृता, यद्वा प्रकारान्तरेण सैव भवनपत्यादिदेवकृतोद्मलोकसम्बन्धिनी चतस्त्रो रज्जव: स्पर्शना नारककृतैवेति समस्ता त्रयोदश । सप्तमभूभागादधस्तनी लोकान्त-पर्यन्ता एकरज्जुमाना तु न सम्भवत्येव, अधोलोके पृथिव्यादितया भवनपत्यादिदेवानामनुत्पत्तेरिति ॥ मीसविउव्वे ण दुहा, . सट्ठाणा जगअसंखंसो ॥२६॥ "मीसविउव्वे ण दुहा" त्ति वैक्रियमिश्रकाय-योगे उपपातसमुद्घातकृता द्विविधा स्पर्शना न भवति, अपर्याप्तावस्थनारकदेवानामुत्पत्तिस्थानशय्यातोऽन्यत्र गमनाभावाद् मरणस्येव मारणसमुद्घातस्याप्य-सम्भवाच्च । “सट्ठाणा" त्ति स्वस्थानात्तु 'जगतः' लोकस्याऽसंख्यांशः स्पर्शना भवति, कुतः ? अधिकृतानां भवप्रत्ययवैक्रियमिश्रशरीरिदेवानामपर्याप्तावस्थतया उत्पादशय्यागतत्वादेव, उत्पादशय्याश्च तेषां लोकाऽसंख्येयभागगता इति तु सुगममिति ॥२६॥ ५७
SR No.022249
Book TitleDravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Original Sutra AuthorN/A
AuthorJagacchandrasuri
PublisherDivyadarshan Trust
Publication Year2010
Total Pages104
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy