SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ इत्यनेनाद्धापल्योपमो ग्राह्यः शेषमतिज्ञानादि - दशमार्गणास्थानेषु तु तेन क्षेत्रपल्योपमो ग्राह्य इति ॥७॥ बायरसमत्तवज्जिअ भू-दग - ऽगणि-वाउकायभेएसुं । पत्तेअवणम्मि य तद पज्जे लोगा असंखिज्जा ॥८॥ 'बायरसमत्ते 'त्यादि, तत्र समत्तशब्दः प्राग्वत्, बादरपर्याप्तभेदवर्जितेषु ओघ - बादरापैघ - तदपर्याप्त - सूक्ष्मौघ-तत्पर्याप्ताऽपर्याप्तभेदभिन्नेषु ‘भूदगगणिवायुकायभेएसुं' ति षट्षु पृथ्विकायभेदेषु, षट्षु अप्कायभेदेषु, षट्षु अग्निकायभेदेषु, षट्षु वायुकायभेदेषु, तथा प्रत्येक वनस्पतिकायौघे तदपर्याप्तभेदे चेत्येवं षड्विंशतिमार्गणास्थानेषु प्रत्येकं 'लोगा असंखिज्जा' त्ति असंख्येयेषु लोकप्रमाणेषु क्षेत्रखण्डेषु यावन्त आकाशप्रदेशास्तावन्तो जीवाः सन्तीत्यर्थः ॥८॥ बायरपज्जाग्गिम्मि उ देसूणघणावलीअ समयमिआ । बायरपज्जाणी ततश्च संखंसो हुन्ति लोगस्स ॥९॥ 'बायरपज्जाग्गिम्मि' इत्यादि, बादरपर्याप्ताऽग्निकायमार्गणास्थाने पुन: 'देसूणे'त्यादि, आवलिकायाः समयेषु घनीकृतेषु यावन्तः समया भवेयुस्ततः स्तोकमात्रेणैकदेशेन न्यूना जीवा भवन्तीत्यर्थः । 'बायरपज्जाणीले' त्ति बादरपर्याप्ते 'नीले' वायुकाये लोकस्य संख्येयतमे भागे यावन्त आकाशप्रदेशाः सन्ति तावन्तो जीवाः सन्तीत्यर्थः ॥९॥ १९
SR No.022249
Book TitleDravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Original Sutra AuthorN/A
AuthorJagacchandrasuri
PublisherDivyadarshan Trust
Publication Year2010
Total Pages104
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy