________________
'णयण' ति चक्षुर्दर्शने, तेजः-पद्म-शुक्ललेश्यालक्षणे शुभलेश्यात्रिके तथा संज्ञिनीत्येवं पञ्चचत्वारिंशन्मार्गणास्थानेषु प्रत्येकं ‘पयरे' त्यादि, घनीकृतलोकस्य यत्प्रतरं तस्यासंख्यांशस्थितासु श्रेणिषु यावन्तो नभःप्रदेशास्तावद्भिर्नभःप्रदेशैस्तुल्या जीवाः सन्तीत्यर्थः ॥३-४-५॥
संखेज्जा मणुसी-नर
पज्जा-ऽवेअ-मणणाण-सव्वत्थे । संयम-छेअ-समाइअ
सुहुमा-ऽऽहारदुग-परिहारे ॥६॥ . 'संखेज्जा' इत्यादि, मानुषी, पर्याप्तमनुष्यः, अपगतवेदः, मनःपर्यवज्ञानम्, सर्वार्थसिद्धदेवः, संयमौघः, सामायिकसंयमः, छेदोपस्थापनसंयमः, परिहारविशुद्धिकसंयमः, सूक्ष्मसम्परायसंयमः, आहारक-तन्मिश्रयोगलक्षणमाहारकदिकं चेत्येवं द्वादश-मार्गणास्थानेषु प्रत्येकं संख्येया जीवाः सन्ति ॥६॥
सेसाऽऽणताइसुर-मइ
सुय-ऽवहिदुग-देसविरय-सम्मेसुं उ । पल्लाऽसंखंसो उव
सम-वेअग-खइअ-मीस-सासाणेसुं ॥७॥ 'सेसाणताईत्यादि भणितशेषेष्वानतकल्पादिषु चतुरनुत्तरविमानान्तेषु सप्तदशसु सुरभेदेषु, मतिज्ञान-श्रुतज्ञाना-ऽवधिद्विक-देशविरतसम्यक्त्वौघेषु, तथा 'पल्लासंखंसो उवसमे'त्यादि, औपशमिकसम्यक्त्वे क्षायिकसम्यक्त्व-मिश्रदृष्टि-सासादनदृष्टिष्वित्येवमष्टाविंशतिमार्गणास्थानेषु पल्योपमस्याऽसंख्यभागो जीवा ज्ञेयाः । इह हि 'सम्मेसुं उ' इत्यत्र तुकारो विशेषद्योतनार्थः, अर्थात् 'पल्लाऽसंखंसो' इति सामान्येनोक्तेऽपि आनतकल्पादि-सप्तदशदेवगतिमार्गणास्थानेषु क्षायिकसम्यक्त्वे च 'पल्ल'