________________
नादिप्रापकपोषकप्रव्रज्याप्रदायकादीनां गच्छाधिपति-श्रीमत्प्रेमसूरीश्वरतातपादप्रभृतीनां प्रसादात् 'श्रुतानुसारेण' आगमार्थमनतिक्रम्य 'गइआइटाणेसुं' ति गत्यादीनि गतीन्द्रियकायादिलक्षणानि निरयगत्योघप्रथमद्वितीयपृथिव्यादि-निरयभेदादितदुत्तरभेदलक्षणानि च यानि सप्तत्युत्तरशतमार्गणास्थानानि तानि मध्यमपदलोपाद्गत्यादिस्थानानि तेषु 'जीवाण' त्ति अस्मदादीनां कर्मनिगडनिबद्धानां प्राणिनाम्, अनेन सिद्धानां व्यवच्छेदो बोद्धव्यः । तेषां 'परिमाणं' संख्येयत्वाऽसंख्येयत्वादिलक्षणं संख्यामानं 'भणामि' त्ति 'सत्सामीप्ये' इत्याद्यनुशासनादनुपदं भणिष्यामीत्याद्यगाथार्थः ॥१॥
णिरये य पढमणिरये,
भवणवइसुरम्मि आइमदुकप्पे । अंगुलअसंखभाग
प्पएसमित्ताउ सेढीओ ॥२॥ प्रतिज्ञातमेव निर्वाहयन्नाह-'णिरये'त्यादि, निरयगत्योघे, प्रथमपृथिवीनिरयभेदे, भवनपति-सुरभेदे, सौधर्मे-शानकल्पद्वयलक्षणे आद्यकल्पद्वये चेत्येवं पञ्चमार्गणास्थानेषु प्रत्येकम् 'अंगुले'त्यादि, अमुलस्याऽ संख्येयतमे भागे यावन्तो नभप्रदेशास्तावत्संख्याकासु सप्तरज्ज्वायतासु सूचिश्रेणिषु यावन्त आकाशप्रदेशास्तावन्तो जीवाः सन्तीत्यर्थः ॥२॥
सेसणिरय-तइआइछ__कप्प-नरेसुं अपज्जमणुसे य । सेढिअसंखंसो सुर
वंतर-जोइससुरेसुं य ॥३॥
१६