________________
॥ श्री महावीर स्वामिने नमः ___ श्री प्रेमसूरीश्वरगुरुभ्यो नमः .
परिमाणादितत्तद्वारेषु तवृत्त्यादौ निरयगत्योघादिसप्तत्युत्तरशतमार्गणास्वविशेषेणाभिहितस्य संख्येयाऽसंख्येयादिलक्षणस्य बन्धकपरिमाणस्य
विशेषेणाऽवबोधार्थं
सावचूरिकं
द्रव्यप्रमाणप्रकरणम् . (अवचूरिः) चरमं तीर्थपति नत्वा, गच्छेशं स्वगुरूंस्तथा ।
ग्रन्थे द्रव्यप्रमाणाख्ये व्याख्या किञ्चिद्वितन्यते ॥१॥
इह लघु अवधारणाय यथार्थाभिधानस्य द्रव्यप्रमाणप्रकरणयाऽऽरिप्सया प्रथमं तावन् मङ्गलादिप्रतिपादिका गाथाभिधीयते'नमिउं' इत्यादि,
नमिउं अरिहंताई __सगुरुपसाया सुयाणुसारेणं । गइआइटाणेसुं
भणिमो जीवाण परिमाणं ॥१॥ इह पूर्वार्धेन मङ्गल-सम्बन्धौ साक्षादुक्तौ, उत्तरार्धेन त्वभिधेयम्, प्रयोजनं तु सामर्थ्यगम्यम् । तत्र अरीणां-रागद्वेषाद्यान्तरशत्रूणां हननात्, यद्वा चतुस्त्रिंशतमतिशयात् देवेन्द्रादिकृतां पूजां वाऽर्हन्तीत्यर्हन्तस्ते आदौ येषामर्हत्सिद्धाऽऽचार्योपाध्यायसाधूनां तेऽर्हदादयस्तानर्हदादीनं 'नत्वा' कायवाङ्मनोयोगैः प्रणम्य 'स्वगुरूणां' भवविरागजनक-सम्यग्दर्शनज्ञा