________________
समर्पणम् र योऽस्ति श्रीप्रेमसूरीश-पट्टप्रद्योतको महान् ।
भुवनभानुसूरीशं, वन्दे सन्मार्गदं गुरुम् ॥१॥ यं श्रिता बोध-वैराग्य-तपस्त्यागादयो गुणाः ।
भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥२॥ येन सद्देशनाभानु-भानुसंबोधिता वयम् ।
. भुवनभानुसूरीशं वन्दे . सन्मार्गदं गुरुम् ॥३॥ यस्मै सृष्टा कृपावृष्टि-गुरुभिर्गुणमूर्तये ।
भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥४॥ यस्मात् सद्बोधदोद्भूता सूत्रार्थचित्रदर्शिका ।
भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥५॥ यस्य शतद्वयासन्न-पद्मादियतिनां गणः ।।
भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥६॥ यस्मिन् परार्थता भव्या, करुणा चाऽप्रमत्तता ।
भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥७॥ अष्टोत्तरशतौलीनां कारक ! जगदाधृते !
भो ! वन्दे तार्किकप्रष्ठ ! वर्धमानतपोनिधे ॥८॥ शतेन वा सहस्रेणा-ऽशक्या गुणस्तुतिस्तव । अतः समर्प्य सत्शास्त्रं स्वात्मानं तोषयाम्यहम् ॥९॥
गुरुपदकजभृङ्ग स्व. अनुयोगचार्यश्रीपद्मविजयशिष्याणु
आचार्य विजय जगच्चन्द्रसूरिः