________________
श्राद्धचन्द्रिकायाम्
इति मनुक्तेः । यत्तु याज्ञवल्कीयम् - प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
इति, तत्कालविशेषानुपादानादितर सर्वापरपक्षश्राद्धविषयम् । अत्यसमर्थस्यैकादिन उक्तम्हेमाद्री नागरखण्डे,
८०
•
आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे । यो वै श्राद्धं नरः कुर्यादेकस्मिन्नपि वासरे || तस्य सम्बत्सरं यावत्तृप्ताः स्युः पितरो ध्रुवम् । इति । यदैकस्मिन्दिने तदा मृततिथौ कार्यम् ।
या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते ।
सा तिथिः पितृपक्षेऽपि पूजनीया प्रयत्नतः ॥
इति निर्णय दीपिकाकार धृतवचनात् । श्रीमातामहगुरव - स्त्विदं निर्मूल मियाहुः । विघ्नवशेन पक्षमध्ये श्राद्धं न जातं चेदग्रेऽपि कार्यमित्याह —
सुमन्तुः,
कन्याराशौ महाराज ! यावतिष्ठेद्विभावसुः । तस्मात्कालाद्भवेद्देयं वृश्चिकं यावदागतः ॥ इति ।
भविष्ये
येयं दीपान्विता राजन् ख्याता पञ्चदशी शुभा । तस्यां देयं न चेद्दत्तं पितॄणां वै महालये ॥ इति । पञ्चदशी=अमा | गौडास्तु सक्कन्महालयमत्रैव कुर्वन्ति । तत्र मूलं न विद्मः ।
अथ महालये पिण्डदाननिषिद्धकालः । प्राजापत्ये च पौष्णे च पित्र भार्गवे तथा ।
यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति ॥ इति । प्राजपत्यं = रोहिणी पौष्णं = रेवती । पित्र=पघा |
श्राद्धं = सपिण्डम् । पिण्डदानस्यैव निषेधनात् ।