________________
महालये श्राद्धषोडशककथनम् । योदश्यादीसके अर्धमिति चाष्टम्यादिपक्ष इत्यपरें। बृहन्मनुः,
आषाढीमवधिं कृत्वा यः पक्षः पञ्चमो भवेत् ।
तत्र श्राद्धं प्रकुर्वीत कन्यास्थाओं भवेन वा ॥ श्लोकगौतमः
कन्यागते सवितरि यान्यहानि तु षोडश । क्रतुभिस्तानि तुल्यानि सम्पूर्णतरदक्षिणैः ॥ इति शूलपाणिना तेषु दत्तमथाक्षयमिति चतुर्थश्चरणोऽलेखि । काजिनिः
आदौ मध्येऽवसाने वा यत्र कन्या रविव्रजेत् । स पक्षः सकलः पूज्यः श्राद्धषोडशकं प्रति ॥ अत्र तिथिवृद्धौ षोडशत्वसम्पादनपिति माधवाचार्याः । पौष्ठपदीश्रादसाहित्येनेति हेमाद्रिः । शुक्ल प्रतिपदा सहेति तु युक्तम् । तथाचदेवला,
अहःषोडशकं यत्तु शुक्लपतिपदा सह ।
चन्द्रक्षयाविशेषेण सापि दर्शात्मिका स्मृता ॥ इति । अत्रेयं सरणिः। समर्थः पक्षपर्यन्तं, पक्षासामथ्र्य षष्ठीमारभ्य, तदसामर्थेऽष्टमीमारभ्य, तदसामर्थे एकादशीमारभ्य, तदसामथै त्रयोदशीपारभ्य वा श्राद्धानि कुर्यात् । अत्र प्रतिपदमारभ्य षोडशदिनपर्यन्तं श्राद्धानुष्ठान एव चतुर्दशीवर्जनं नास्ति इत. रेषु त्रिभागादिहीनपक्षेषु तद्वर्जनमस्त्येव ।
नभस्यस्यापरे पक्षे श्राद्धं कुर्यादिने दिने ।
नैव नन्दादि वयं स्यान्नैव वा चतुर्दशी ॥ इति कार्णाजिनिवचनात् ।।
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।