SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् तन्मुख्यकाळेऽजातस्यैकोद्दिष्टस्य गौणकालतापरमिति युः क्तम् । दिनद्वये मध्याह्नादिसत्वेऽसत्त्वे वा निर्णयो दार्शतस्ति. ध्यर्के । कर्माङ्ग वृद्धिश्राद्धं तु प्रातराद्यत्रिमुहूर्ते कार्यम् । अग्न्या धानाङ्गक वृद्धिश्रादं त्वपराह्ने कार्यम् । पार्वणं चापराढे तु वृद्धिश्राद्धं तथानिकम् । इति गालववचनात् । पुत्रजन्मादिनिमित्तकं तु निमित्ता. नन्तरं राज्यादावपि कार्यम् । पूर्वाहे तु भवेद्वद्धिविना जन्मनिमित्तकम् । पुत्रजन्मनि कुर्वीत श्राद्धं तात्कालिकं बुधः ॥ इत्यत्रिवचनात् । हेमश्राद्धस्यामश्राद्धसाधात्सलवेऽनुः धानं बोध्यमितिदिक् । अथ महालयः। बृहन्मनुः नभस्यस्यापरः पक्षो यत्र कन्यां बजेद्रविः ।। स महालयसंज्ञः स्याद्जच्छायाहयस्तथा ।। इति । तत्रादौ पोष्ठपदीश्राद्धमुक्तं हेमाद्रौ। ब्रह्मपुराणे, नान्दीमुखानां प्रत्यन्दं कन्याराशिगते रचौ । पौर्णमास्यां तु कर्त्तव्यं वराहवचनं तथा ॥ पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो हाश्रुमुखा ह्येते पितरः सम्प्रकीर्तिताः ॥ तेभ्यः परतरे ये तु ते तु नान्दीमुखाः स्मृताः । इति । यस्मिन्दन्तिमासे सूर्यः कन्या गच्छति तन्मातपौर्णमा स्या भाद्रपद्यामित्यर्थः । प्रत्यन्दमिति वीप्सयावश्यकता घो. स्यते । अत्र कोचिन-- पितरो यत्र पूज्यन्ते तत्र मातामहा अपि ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy