SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ महालयनिरूपणम् । इति धौम्यवाक्येन मातामहपार्वणमपि पौष्ठपदी. श्राद्ध कार्यमित्याहुः । तन्न । धौम्यवाक्यगतपितृशब्दस्य पितृपितामहमपितामहपरस्य बहुवचनान्तस्य जनकादिपरत्वावि. वक्षया सपिण्डीकरणान्तश्राद्धजन्यपितृभावापत्तिपरत्वे जीव. पितृकस्य मातृनवमीप्रयुक्तान्वष्टक्यश्राद्धेऽपि मातामहाद्यापत्तिव्यावस्यर्थ यत्र पितृदैवत्यं श्रादं तत्रैव मातामहादिश्राद्धविधि - न्यत्रेत्यस्यावश्यं वाच्यत्वात् । इष्टापत्तिपक्षे तु सन्न्यासिनो सपिण्डीकरणाभावेन ताशपितृभावापत्यभावात्सन्न्यस्तपितुर्देवदत्तस्य दर्शश्राद्धेऽपि धौम्यवाक्यविषयानाक्रान्ततया मातामहादयो न स्युरिसनिष्टापत्तिस्तस्मात्तत् । प्रकृते तु देवतान्तरयोगादाशङ्कापरि. हारावभुक्तवान्तवदुपेक्ष्यो। व्यवस्थापितं चैवमेव प्रकारान्तरेण द्वैतनिर्णयेऽस्मान्मातुः पितामहचरणः । तथा चेयं तेषां सिद्धा. न्तकारिकापि तस्मात्पौष्ठपदीश्राद्धे नेज्या मातामहादयः । इति साधितमस्मामियायज्ञेयार्थवाक्यतः ॥ इति । अत्र अस्मन्नान्दीमुखानां महादेवगोविन्ददामोदरशर्मणाममु. कगोत्राणां वसुरुद्रादित्यस्वरूपाणां धूरिलोचनसंज्ञकानां विश्वे. षां देवानां चावश्यकं पौष्ठपदीश्राद्धं पार्वणधिधिनानेन हविषा युष्मदनुज्ञया सद्यः करिष्ये । अस्मन्नान्दीमुखस्य महादेवशर्मणो वसुस्वरूपस्य स्थाने त्वामहं निमन्त्रये, अस्मन्नान्दीमुखस्य गोवि. न्दशर्मणो रुद्रस्वरूपस्य स्थाने० अस्मन्नान्दीमुखस्य दामोदरशर्मण आदित्यस्वरूपस्य स्थाने स्वामिति प्रयोगक्रमो ज्ञेयः । शेष पार्वणश्राद्धवत् : अस्मिन् श्राद्ध धूरिलोचनो देवी कन्याराशिगतसूर्यसम्बन्धात् । एतच्चापुत्रविधवयापि कार्यम् । महालय श्रादवदत्रापि तस्याः प्रवृत्तौ बाधकाभावात् । श्राद्धाङ्ग तर्पणं तु परेयुः कार्य विशेषवचनाभावात् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy