SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ہو व्याघ्रः श्राद्धचन्द्रिकाणाम् अङ्गानि पितृयज्ञस्य यदा कर्त्तुं न शक्नुयात् । स तदा वाचयेद्विप्रान्सङ्कल्पात्सद्धिरस्त्विति ।। साङ्कल्पश्राद्धे निमितान्तरमप्याह छागलेयः, पिण्डो यत्र निवर्चेत मघादिसु कथञ्चन । साङ्कल्पं तु तदा कार्य नियमाद्ब्रह्मवादिभिः ॥ इति । अन्यान्यपि श्राद्धान्येकोद्दिष्टव्यतिरिक्तानि नित्यानि नैमित्तिकानि काम्यानि च दर्शश्राद्धविधिना कर्त्तव्यानि । अत एवोक्तं मदनरत्नेब्रह्माण्डपुराणे, प्रदानं यत्र यत्रैषां सपिण्डीकरणात्परम् । तत्र पार्वणवच्छ्राद्धमेकोद्दिष्टं त्यजेदूबुधः ॥ पार्वणवदर्शवदित्यर्थः । अथ पार्वणैकोद्दिष्टयोः कालमाह हारीतः, आमश्राद्धं तु पूर्वाह्णेऽपराह्ने पार्वणं भवेत् । एकोद्दिष्टं तु मध्याह्ने प्रातर्दृद्धिनिमित्तकम् ॥ इति । अत्र दिवसस्य पञ्चधा विभागो ज्ञेयः । प्रातःसङ्गवमध्याद्वापराहसायाह्न भेदात् । अत्र पूर्वाह्नशब्देन मध्याह्नपूर्वभावी सङ्गवो ग्राह्यः । प्रातर्व्यपदेशादत्रापि मातःकाल निषेधप्रवृत्तौ बाधकाभावात् । काळात्मातस्तनादूर्ध्वं त्रिमुहूर्ता तु या तिथिः । आमश्राद्धं तत्र कुर्याद्विमूहूर्त्तापि वा भवेत् ॥ इति व्याघ्रपादवचनात् । एतच्च द्विजकर्तृकानित्यामश्राद्धविषयम् । शुद्रकर्तृक नित्यामश्राद्धं स्वपराह्ने कार्यम् । मध्याह्नात्परतो यस्तु कुतुपः समुदाहृतः । आममात्रेण तत्रैव पितॄणां दत्तमक्षयम् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy