________________
माङ्कल्पश्राद्धनिरूपणम् । (१)अथाशक्तस्य सङ्कल्पश्राद्धमाहहेमाद्रौ सम्वतः,
समग्रं यश्च शक्रोति का नैवेह पार्वणम् । अपि सङ्कल्पविधिना काले तस्य विधीयते ॥ पात्रे भोज्यस्य चान्नस्य त्यागः सङ्कल्प उच्यते । तत्पयुक्तो विधिर्यस्तु स तेन न्यपदिश्यते ॥ तावन्मात्रेण सम्बन्धं श्राद्धं साङ्कल्पमुच्यते । प्रतिज्ञासन पूजान सङ्कल्पाक्षय्यदक्षिणाः ॥ इति । तद्विधिरपि पराशरोक्तोऽन्यत्र द्रष्टव्यः । अत्र ययभि. षिद्धं तदाहव्यासः,
साङ्कल्पं तु यदा कुर्यान कुर्यात्पात्रपूरणम् ।
नावाहनं नानौकरणं पिण्डांश्चैव न दापयेत् ॥ पात्रपूरणमय॑स्य । वसिष्ठः
आवाहनं स्वाधाशन्दं पिण्डागौकरणं तथा । विकिरं पिण्डदानं च साङ्कल्पे षड्विवर्जयेत् ॥ पिण्ड-उच्छिष्टपिण्डः । (१) अत्र-अत्रेदं विचार्यते-अन्यत्र पतिना सहेति वाक्यशेषाह. दिौ सपत्नीकानां देवतात्वमुत केवलानामिति । तत्र केवलानामिति प्राञ्चः । हेमाद्रिस्तभानुमन्यते । अन्यत्र पतिना सहेतिवचनात्सपत्नी. कानामेव देवतात्वमभिजानाति । न च लभर्तृकार्य मात्रे इति प्रयोग. प्रसङ्गः। प्रतीयमानस्यापि पत्नीप्राधान्यस्यात्राविवक्षितत्वात् । प तिसहत्वस्य प्राधान्यस्य च विवक्षणे गौरवं स्यात् । प्राप्ते कर्मणिः गुणद्वयंविधानस्थाशक्यत्वात् । तदाहु:
प्राप्त कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ इति । इत्यधिकं पुस्त. कान्तरे।
१० श्रा० चं.