SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७२ श्राद्धचन्द्रिकायाम् - सपिण्डीकरणदुर्ध्वं पित्रोरेव हि पार्वणम् । पितृव्यभ्रातृमातृणामेकोद्दिष्टं न पार्वणम् ॥ कात्यायन', मातॄणां सपत्नमातॄणाम् । निर्णयामृते वृद्धगार्ग्य:-- मातुः सहोदरो यश्च पितुः सहभवश्च यः तयोश्चैव न कुर्वीत पार्वणं पिण्डनादृते ।। पिण्डनात् = सपिण्डीकरणात् । श्राद्धदीपकलिकायां चतुर्विंशतिमते विशेषः । (१) पितृव्यभ्रातृमातृणां ज्येष्ठानां पार्वणं भवेत् । एकोद्दिष्टं कनिष्ठानां दम्पत्योः पार्वणं मिथः ।। इति । दाक्षिणात्यास्त्वेवमेवाचरन्ति । अत्रिः सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदीयते । भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥ मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् । इति । यत्र यत्र = कारुण्याद्वर्षश्राद्धे वचनात्तीर्थगयामहालयेष्वित्यर्थः । यत्तु प्रयोग पारिजातकारण वार्षिके पितृव्यादीनां पार्वणमेव कार्य नै कोद्दिष्टमित्युक्तं तत् प्रकरणविरोधाडेमायादिसर्वग्रन्थासम्मतत्वाच्चोपेक्ष्यम् । काष्र्णाजिनिः- अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह ।। इति । सधवाक्षपाहे विशेषः स्मृत्यन्तरे - भर्त्तुरग्रे मृता नारी सह वा तेन या मृता । तस्याः स्थाने नियुञ्जीत विभैः सह सुवासिनीम् ॥ इति । (१) भ्रातृव्येति द्वि० पु० पा ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy